________________
१८
उत्तराध्ययन-मूलसूत्रम्-१-१/१ विनय इति प्रक्रमः, ततश्च शब्दादिविषयसम्पत्तिनिमित्तं तथा तथा प्रवर्तनं कामविनय:, दुष्प्रधर्षनपतिसामन्तादेः प्राणादिभयेनानुवर्तनं भयविनयः, इहलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिषु कर्मक्षयाय प्रवर्तनं मोक्षविनयः, स च दर्शनज्ञानचारित्रतपउपचारभेदात् मञ्चप्रकारः, तत्र चौपचारिकोऽनुरूपव्यापारसम्पादनानाशतनाभेदतो द्विभेदः, तत्र चाद्ये अभ्युत्थानम्-आगच्छति गच्छति च दृष्टे गुरावासनमोचनम्, अभिग्रहो-गुरुविश्रामणादिनियमः, कृतिः-द्वादशावर्तादिवन्दनं, शुश्रूषणं न पक्खओ न पुरओ' इत्यादिविधिना गुरुवचनश्रवणेच्छा, पर्युपासनमित्यर्थः, अनुगमनम्-आगच्छतः प्रत्युद्गमनं, संसाधनं-गच्छतः सम्यगनुव्रजनं, 'कुलं'नागेन्द्रादिः 'गणः' कोटिकादिः, 'क्रिया' अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिकेह गृह्यते, 'धर्मः' श्रुतचारित्रात्मकः 'ज्ञानं' मित्यादि 'आचार्यः' अनुयोगाचार्यः ‘गणी' गणाचार्यः अनाशानता-मनोवाक्कायैरप्रतीपप्रवर्तनं, भक्तिःअभ्युत्थानादिरूपा, बहुमानोमानसोऽत्यन्तप्रतिबन्धः, वर्णनं वर्ण:-श्लाघनं तेन सञ्जवलनाज्ञानादिगुणोद्दीपना वर्णसंज्वलना ॥ श्रुतस्य चत्वार परिमानमस्येति चतुष्कः, सङ्ख्याया अतिशदन्तायाः कन्निति कन्, तुशब्दश्चतुर्विधनिक्षेपोऽवश्यं सर्वत्र वक्तव्य इति विशेषद्योतकः,
"जत्थ उ जं जाणेज्जा निक्खेवं निक्खेवे निरवसेसं।
जत्थवि नवि जाणिज्जा चउक्कयं निक्खिवे तत्थ ।।" निक्षेपो-न्यासः, तत्राद्ययोः सुगमत्वात्तृतीयमाह-द्रव्यतो द्रव्यरूपं वा श्रुतं द्रव्यश्रुतम्, आगमतो नोआगमतश्च, तत्रागमतोज्ञाताऽनुपयुक्तः, नोआगमतस्त्वाह-निाते-आगमाभिहितमर्थमतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निह्नवो-जमालिप्रभृतिः पश्चात्कृतश्रुतपरिणतिः, आदिशब्दात्पुरस्कृतश्रुतपरिणतिसत्त्वपरिग्रहः, भाव श्रुतमप्यागमनोआगमभेदतो द्विधा, तत्रागमतोऽभिधातुमाह-भावतो भावरूपं वा श्रुतं भावश्रुतं, प्राकृतत्वादिह पूर्वत्र च बिन्दुलोपः, 'श्रुते' श्रुतविषये, 'तुः' अवधारणे भिन्नक्रमः, तत उपयुक्त एव, कोऽर्थः ?यस्य श्रुतमिति पदं ज्ञातं तत्र चोपयोगः स भाव श्रुतं, तदुपयोगानन्यत्वाद, अग्न्युपयुक्तमानवकाग्निवदिति गाथार्थः ॥ ___ उक्तावोधनामनिष्पन्ननिक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तथापि स नोच्यते, यतः सति सूत्रेऽसौ सम्भवति, सूत्रं च सूत्रानुगमे, स चानुगमभेद इति अनुगम एव तावदुपवर्ण्यते-द्विविधोऽनुगमः-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यो निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगम उत्तरादिनिक्षेपप्रतिपादनादनुगत एव, उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः, तच्चेदम्
"उद्देसे निद्देसे य निग्गमे खेत्त काल पुरिसे य। कारण पच्चय लक्खण नए समोयारणानुमए ॥१॥ कि कइविहं कस्स कहि केसु कहं केच्चिरं हवइ कालं? ।
कइ संतरमविरहियं भवागरिस फासण निरुत्ती ॥२॥ एतदर्थः सामायिकनियुक्तितोऽवसेयः, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रावययव्याख्यानरूपत्वात् सूत्रस्पर्शिकनियुक्तेः सति सूत्रे सम्भवति, तच्च सूत्रानुगम एवेति तत्रैव वक्ष्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org