________________
अध्ययनं-१,[नि. २९] नन्वेवमस्थानमिदमस्येति कस्मादिहोद्देशः? उच्यते, निर्युक्त्यनुगममात्रसामान्यात्, तदुक्तम्
"संपइ सुत्तप्फासियनिज्जुत्ती जं सुयस्स वक्खाणं । तीसेऽवसरो सा पुण पत्तावि न भन्नए इहई ।।१।। किं जेनासइ सुत्ते कस्स तई तं जया कमप्यत्तो। सुत्तानुगमो वोच्छं होही तीसे तया भावो ।।२।। अत्थाणमियं तीसे जइ तो सा कीस भन्नई इहयं ? ।
सा भन्नइ निज्जुत्तीमेत्तसामनओ नवरं ।।३।।" साम्प्रतं सूत्र'नुगमः, तत्रालीकोपघातजनकत्वादिदोषरहितं निर्दोषसारत्वा(वत्त्वा)दिगुणान्वितं सूत्रमुच्चारणीयं, तच्चेदम्मू. (१) संजोगा विप्पमुक्कस्स अनगारस्स भिक्खुणो।
विनयं पाउक्करिस्सामि आनुपुब्बिं सुणेह मे।। वृ.अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोच्चारणं संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वात्. तथा चाह-“होइ कयत्थो वोतुं सपयच्छेयं सुयं सुयानुगमो"त्ति । पदं तु नामिकनैपातिकादि स्वधियैव भावनीयं, पदार्थस्त्वयम्-अन्यसंयुक्तस्यासंयुक्तस्य वा सचित्तादिवस्तुनो द्रव्यादिना संयोजन-संयोगः, स च संयुक्तसंयोगादिभेदेनानेकधा वक्ष्यते, तस्मान्मात्रादिसंयोगरूपादौदयिकादिक्लिष्टतरभावसंयोगात्मकाच्च विविधैः-ज्ञानभावनादिभिर्विचित्रैः प्रकारैः प्रकर्षण-परीषहोपसर्गादिसहिष्णुतालक्षणेन मुक्तो-भ्रष्टो विप्रमुक्तः, तस्य, 'अनगारस्ये'तिअविद्यमानमगारमस्येत्यनगार इति व्युत्पन्नोऽनगारशब्दो गृह्यते, यस्त्वव्युत्पन्नो रूढिशब्दो यतिवाचकः, यथोक्तम्
___ 'अनगारो मुनिर्मोनी, साधुः प्रव्रजितो व्रती।
श्रमणः क्षपणश्चैव, यतिश्चैकार्थवाचकाः ॥१॥ इति, - ‘स इह न गृह्यते, भिक्षुशब्देनैव तदर्थस्य गतत्वात्, तत्र चागारं द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यागारमगैः-द्रुमदृषदादिभिर्निर्वृत्तं, भावागारं पुनरगैः- विपाककालेऽपि जीवविपाकतया शरीरपुद्गलादिषु बहिःप्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिनिर्वृत्तं कषायमोहनीयं, तत्र च द्रव्यागारपक्षे तन्निषेधे ततोऽनगारस्याविद्यमानगृहस्येत्यर्थः, भावागारपक्षे त्वल्पताभिधायी, ततः स्थितिप्रदेशानुभागतोऽत्यल्पकषायमोहनीयस्येत्यर्थः, कषायमोहनीयं हि कर्म, न च कर्मणः स्थित्यादिभूयस्त्वे विरतिसङ्गमः, यत आगमः--
"सत्तण्हं पयडीणं अब्भितरओ उ कोडिकोडीओ।
काऊण सागराणं जइ लहइ चउण्हमन्त्रयरं।" इत्यादि, क्लिष्टतरभावसंयोगमुक्तत्वेनैवचास्य गतत्वे पुनरभिधानं कषायमोहनीयस्यातिदुष्टताख्यापनार्थं, विशेष्यमाह-'भिक्षो'रिति, अत्रचपचनपाचनादिव्यापारोपरमतः साधुर्भिक्षते तद्धर्मा चेत्यर्थ "सनाशंसभिक्ष उ"रिति ताच्छीलिक उप्रत्ययः, अस्य च वर्तमानाधिकारविहितत्वेऽपि 'सज्ज्ञाप्रकारास्ताच्छीलिका' इति भाष्यकारवचनाद्भिक्षुशब्दस्त्रिकालविषयो यतिपर्याय: सिद्धो भवति, शेषविवक्षायां च षष्ठी, अथवा-'अनगारस्सभिक्खुणो'त्ति अस्वेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org