________________
अध्ययनं - ५, [ नि. २३५ ]
२०५
रूपस्य च तेष्वसम्भवात्, ‘विषमम्' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीला:, के ते? - भिक्षव्:, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्तरीयास्तु दूरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यतः -- केचिद्गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकधैव ब्रुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषाञ्चित्पञ्चयमनियमात्मकं व्रतमिति दर्शनम्, अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु क्वचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह
मू. ( १४८ )
संति एगेहि भिक्खूहिं, गारत्था संजमुत्तरा ।
गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा ॥
वृ. ‘सन्ति' विद्यन्ते, एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'गारत्थ 'त्ति सूत्रत्वादगारस्थाः संयमेन-देशविरत्यात्मकेनोत्तराः - प्रधानाः संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि बहिष्कृताः सर्वथाऽचारित्रिणश्चेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु ?, एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह- 'अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्जसर्वोत्तम देशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयमत्वातेषां तथा च वृद्धसम्प्रदायः-एगो सावगो साहुं पुच्छति -सावगाणं साहूणं किमंतरं ?, साहुणा भण्णतिसरिसवमंदरंतरं, ततो सो आउलीहूणो पुणो पुच्छति-कुलिंगीणं सावगाण य किमंतरं ?, तेन भण्णति-तदेव सरिसवमंदरंतरंति, ततो समासासितो, जतो भणियं
,
"देसेक्कदेसविरया समणाणं सावगा सुविहियाणं ।
जेसिं परमासंडा सतिमंपि कलं न अग्घंति ॥ "
तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः । ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्यो ऽगारस्थाः संयमोत्तराः, अत आहमू. (१४९ ) चीराजिनं निगिणिणं, जडी संघाडि मुंडिणं ।
एयाइंपि न तायंति, दुस्सीलं परियागतं ॥
वृ. चीराणि च - चीवराणि अजिनं च-मृगादिचर्म चीराजिनं 'निगिनिनं 'ति सूत्रत्वान्नाग्न्यं 'जडि 'त्ति भावप्रधानत्वान्निर्देशस्य जटित्वं, सङ्घाटी-वस्त्रसंहतिजनिता 'मुंडिणं 'ति यत्र शिखाऽपि स्वसमयंतश्छिद्यते, ततः प्राग्वत् मुण्डित्वं, 'एतान्यती 'ति निजनिजप्रक्रियाविरचितव्रतिवेषरूपाणि लिङ्गान्यपि किं पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, किमित्याह - नैव त्रायते भवाद्दुष्कृतकर्मणो वेति गम्यते कीदृशम् ? - 'दुःशीलं ' दुराचारं 'परियागयं' ति पर्यायागतंप्रव्रज्यापर्यायप्राप्तम्, आर्षत्वाच्च याकारस्यैकस्य लोप:, यद्वा- 'दुस्सीलंपरियागयं 'ति मकारोऽलाक्षणिकः, ततो दुःशीलमेव दुष्टशीलात्मकः पर्यायस्तमागतं दुःशीलपर्यायागतं, न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायालं, ततो न लिङ्गधारणादि विशिष्टहेतुरिति सूत्रार्थः । आह- कथं गृहाद्यभावेऽप्यमीषां दुर्गतिरिति ?, . उच्यतेमू. (१५० ) पिंडोलए व दुस्सीलो, नरगाओ न मुच्चइ ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org