SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २०४ उत्तराध्ययन-मूलसूत्रम्-१-५/१४५ वृ. 'एतद्' अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यता यन्मरणमुक्तं तदकाममरणं, बालानामेव, तुशब्दस्यैवार्थत्वात्, ‘प्रवेदितं' प्रकर्षेण प्रतिपादितं, तीर्थकृद्गणधरादिभिरिति गम्यते। पण्डितमरणप्रस्तावनार्थमाह-'एत्तो'त्ति इतोऽकाममरणादनन्तरं 'सकाममरणं पण्डितानां सम्बन्धि 'शृणुत' आकर्णयत 'मे' मम, कथयत इत्युपस्कारः इति सूत्रार्थः । यथाप्रतिज्ञातमाहमू.(१४६) मरणंपि सपुन्नाणं, जहा मे तमनुस्सुयं। विप्पसनमनाघायं, संजयाणं वुसीमओ॥ वृ.मरणपिआस्तां जीवितमित्यपिशब्दार्थः, 'पुण कर्मणि शुभे'इत्यस्माद्धातोः 'उणादयो बहुल' मिति बहुलवचनाद्भावे क्यपि पुण्यम्, उत्प्तं हि "पुन कर्मणि निर्दिष्टः शुभविशेषप्रकाशको धातुरयम्। भावप्रत्यययोगाद्विभक्तिनिर्देशसिद्धमेतद्रपम्॥" सह तेन वर्तन्त इति सपुण्यास्तेषां न त्वन्येषामपुण्यवतां, किं सर्वमपि?, नेत्याह-'यथा' येन प्रकारेण 'मे' मम, कथयत इति गम्यते, तदित्युपक्षेयः, तत्रोपात्तम् 'अनुश्रुतम्' अवधारितं, भवद्भिरिति शेषः, सुष्ठु प्रसन्न मरणसमयेऽप्यकलुषं कषायकालुष्यापगमान् मनः-चेतो येषां ते सुप्रसन्नमनस: महामुनयस्तेषां ख्यातं-स्वसंवेदनतः प्रसिद्धं सुप्रसन्नमन:ख्यातं, यद्वा-'सुप्पसन्नेहि अक्खायं' अत्र च सुष्ठ प्रसन्नैः-पापपङ्कापगमनेनात्यन्तनिर्मलीभूतैः, शेषतीर्थकृद्भिरिति गम्यते, आख्यातं। पठ्यते च 'विप्पसण्णमनाघायं'ति, तत्र चविशेषेण विविधैर्वा भावनादिभिः प्रकारैः प्रसन्नामरणेऽप्पपहतमोहरेणुतयाऽनाकुलचेतसो विप्रसन्नाः, तत्सम्बन्धि मरणमप्युपचारा-द्विप्रसन्नं, न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत् संलिखितशरीरतया यस्मिस्तदनाघातं, केषां पुनरिदम्?, उच्यते-'संयतानां' समिति-सम्यग्यतानां-पापोपरतानां, चारित्रिणामित्यर्थः, वुसीमतो'त्ति, आर्षत्त्वावश्यवतां वश्य इत्यायत्तः, सचेहात्मा इन्द्रियाणि वा, वश्यानि विद्यन्ते येषां ते अमी वश्यन्तः तेषाम् अयमपर: सम्प्रदायार्थः-वसंति वा साहुगुणेहि वुसीमंतः, अहवा वुसीमा-संविग्गा तेसिं'ति एतच्चार्थात् पण्डितमरणमेव, ततोऽयमर्थःयथैतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च सम्भवति, न तथाऽपुण्यप्राणिनाम्। 'अन्ते समाहिमरणं अभव्वजीवा न पावेंति'त्ति वचनात्, विशिष्टयोग्यताभाजामेव तत्प्राप्तिसम्भवादिति मू.(१४७) न इमं सव्वेसु भिक्खूसुं, न इमं सव्वेसु गारिसु। नानासीला य गारत्था, विसमसीला य भिक्खूणो। वृ. 'ने' त्यवधारणफलत्वाद्वाक्यस्य नैव 'इद'मिति पण्डितमरणं 'सव्वेसु भिक्खूसु'त्ति सूत्रत्वात् सर्वेषां भिक्षूणां परदत्तोपजीविनां वतिनामितियावत्, किन्तु केषाञ्चिदेव परोपचितपुण्यानुभाववतां भावभिक्षूणां, तथा च गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं पण्डितमरणं 'सव्वेसु गारिसुत्ति सर्वेषामगारिणा गृहिणां, चारित्रिणामेव तत्सम्भवात्, तथात्वे च तेषामपि तत्त्वतो यतित्वाद्, उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं तथोपपत्तित आह-नानाअनेकविधं शीलं-व्रतंस्वभावोवा येषां ते नानाशीला: 'अगारस्था' गृहस्थाः तेषां हि नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाऽभिधानात्, सर्वविरति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy