________________
२०३
अध्ययनं-५,[नि. २३५] आधाय कृत्वा, कर्माणीति गम्यते, ततस्तैरेव कर्मभिः 'गच्छन्' यान्, प्रक्रमानरकं, यद्वा'यथाकर्मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छंस्तदनुरूपमेव स्थानं, 'स' इति बालः, पश्चादि'त्यायुषि हीयमाने 'परिपत्यते' यथा धिड्मामसदनुष्ठायिनं, किमिदानी मन्दभाग्यः करोमि?, इत्यादि शोचत इति सूत्रार्थः ।। अमुमेवार्थं दृष्टान्तद्वारेण दृढयन्नाहमू. (१४२) जहा सागडिओ जाणं, संमं हिच्चा महापहं।
विसमं मग्गमोतिन्नो, अक्खभग्गंमि सोयइ।। वृ. 'यथे'त्युदाहरणोपन्यासार्थः, शक्नोति शक्यते वा धान्यादिकमनेन वोढुमिति शकटं तेन चरति शाकटिक:-गन्त्रीवाहक: 'जाणं'ति जानन्नवबुध्यमानः 'समम्' उपलादिरहितं 'हित्वा'त्यक्त्वा, कम् ?-महांश्चासौ विस्तीर्णतया प्राधान्येन च पन्थाश्च महापथः, 'ऋक्पूरब्धूःपथामानक्षे इत्यकार: समासान्तस्तं, 'विषमम्' उपलादिसंकुलं 'मार्ग' पन्थानं ओतिन्नो'त्ति अवतीर्णः-गन्तुमुपक्रान्तः, पठ्यते च-'ओगाढो'त्ति तत्र चावगाढ आरूढः प्रपन्न इति चैकोऽर्थः, अश्नीते नवनीतादिकमित्यक्षो-धूः तस्य भङ्गो-विनाशः अक्षभङ्गः तस्मिन् पाठान्तरतश्चाक्षे भग्ने, शोचते यथा धिग् मम परिज्ञानं यज्जाननपीथमपायमवाप्तवानिति सूत्रार्थः ।। मू.(१४३) एवं धम्म विउक्कम्म, अहम्मं पडिवज्जिया।
बाले मच्चुंमुहं पत्ते, अक्खे भग्गे व सोयइ। वृ.'एव'मिति शाकटिकवद् 'धर्म' क्षान्त्यादिकं यतिधर्मं सदाचारात्मकं वा 'विउक्कम'त्ति व्यत्क्रम्य विशेषेणोल्लङ्घय न धर्मोऽधर्मः, नत्र विपक्षेऽपि वर्तते इति धर्मप्रतिपक्षः, तं-हिंसादिकं 'प्रतिपद्य' अभ्युपगम्य 'बालः' अभिहितरूपो मरणं-मृत्युस्तस्य मुखमिव मुखं मृत्युमुखंमरणगोचरं प्राप्तो' गतः, किमित्याह-अक्षे भग्न इव शोचति, किमुक्तं भवति?-यथा-अक्षभङ्गे शाकटिक: शोचति तथाऽयमपि स्वकृतकर्मणामिहैव मारणान्तिकवेदनात्मकं फलमनुभवनात्मानमनुशोचति, यथा हा किमेतज्जानताऽपि मयैवमनुष्ठितमिति सूत्रार्थः ।। शोभनानन्तरं च किमसौ करोतीत्याहमू. (१४४) तओ से मरणंतंमि, बाले संतस्सइ भया।
अकाममरणं मरई, धुत्ते वा कलिणा जिए॥ वृ. 'तत' इत्यातकोत्पत्तौ यच्छोचनमुक्तं तदनन्तरं 'से' इति स मरणमेवान्तो मरणान्तस्तस्मिन्, उपस्थित इति शेषः, बालो' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते बिभेतीतियावत्, कुतः? - 'भयात्' नरकगतिगमनसाध्वसाद, अनेनाकामत्वमुक्तं, सच किमेवं बिभ्यत् मरणाद्विमुच्यते? उत नेत्याह-अकामस्य-अनिच्छतो मरणमकाममरणं तेन, सूत्रे चार्षत्वाद्वितीया, 'म्रियते' प्राणांस्त्यजति, क इवकीदृशः सन्?- 'धूर्त इव' द्यूतकारइव, वाशब्दस्योपमार्थत्वात्, 'कलिना' एकेन, प्रक्रमात् दायेन, जितः सनात्मानं शोचति, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति तथाऽसावपीत्वरैर्विपाककटुभि: संक्लेशबहुलैर्मनुजभोगैर्दिव्यसुखं हारितः शोचनेव म्रियत इति सूत्रार्थः ।। प्रस्तुतमेवार्थं निगमयितुमाहमू.(१४५) एयं अकाममरणं, बालाणं तु पवेइयं।
इत्तो सकाममरणं, पंडियाण सुणेह मे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org