________________
२०२
उत्तराध्ययन-मूलसूत्रम्-१-५/१३८ संस्पर्शतः शुष्यनिहैव क्लिश्यति विनाशं चाप्नोति, तथाऽयमप्युपचितमलः आशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः ।। अमुमेवार्थं व्यक्तीकर्तुमाहमू. (१३९) तओ पुट्ठो आयंकेण, गिलाणो परितप्पति।
पभीओ परलोगस्स कम्मानुप्पेही अप्पणो । वृ. 'ततो'त्ति तकः ततो वा दण्डारम्भणाधुपाजितमलतः स्पृष्टः, केन ?- 'आतङ्केन' आशघातिना शूलविसूचिकादिरोगेण तत्तदुःखोदयात्मकेन वा 'ग्लान' इति मन्दोऽपगतहर्षो वा परीति-सर्वप्रकारं तप्यते, किमुक्तं भवति? -बहिरन्तश्च खिद्यते, 'प्रभीत' इति प्रकर्षण त्रस्तः, कुतः?, परलोगस्स'त्ति परलोकात्, सुब्व्यत्ययेन पञ्चम्यर्थे षष्ठी, किमिति?-क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः, कर्मानुप्रेक्षी, यत इति गम्यते, कस्य?-आत्मनः, स हि हिंसालीकभाषणादिकामात्मचेष्टां चिन्तयन्न किञ्चिन्मया शुभमाचरितं, किन्तु सदैवाजरामरवच्चेष्टितमिति चिन्तयंश्चेतस्यातङ्कतश्च तनावपि खिद्यते, भवती हि विषयाकुलितचेतसोऽपि प्रायः प्राणोपरमसमयेऽनुतापः, तथा चाहु:"भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ।
पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ।।" इति सूत्रार्थः ।। अमुमेवार्थं व्यक्तीकर्तुमाहमू. ( १४०) सुया मे नरए ठाणा, असीलाणं च जागती।
बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ।। वृ. 'सुय'त्ति श्रुतानि-आकर्णितानि 'मे' इति मया 'नरके' सीमन्तकादिनाम्नि, कानि?'ठाणा' इति लिङ्गव्यत्ययेनोत्पत्तिस्थानानि घटिकालयादीनि येष्वतिसंपीडिताङ्गा दुःखमाकृष्यमाणाः बहिनिष्क्रामन्ति जन्तवः, यद्वा नरके-रत्नप्रभादिनरकपृथिव्यात्मके स्थानानिसीमन्तकाप्रतिष्ठानादीनि कुम्भीवैतरण्यादीनिवा, अथवा स्थानानिसागरोपमादिस्थित्यात्मकानि, तत्किमियताऽपि परितप्यत इत्यत आह-'अशीलानाम्' अविद्यमानसदाचाराणा या गतिर्नरकात्मिका सा च श्रुतेति सम्बन्धः कीदृशानाम्?-'बालानाम्' अज्ञानां 'क्रूरकम्मणां' हिंस्त्रमृषाभाषकादीनां, कीदृशी गतिरित्याह-प्रगाढा नामात्युत्कटतया निरन्तरतया च प्रकर्षवत्यो 'यत्र' यस्यां गतौ वेद्यन्त इति वेदना:-शीतोष्णशाल्यल्याश्लेषणादयः, तदयमस्याशयः-ममैवंविधानुष्ठानस्येदृश्येव गतिरिति सूत्रार्थः ।। तथामू.(१४१) तत्थोववाइयं ठाणं, जहा मे तमनुस्सुयं ।
आहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पति॥ वृ.'तत्रे'ति नरकेषु उपपाते भवमौपपातिकं स्थानं' स्थिति: 'यथा' येन प्रकारेण, भवतीति शेषः, 'मे' मया तदित्यनन्तरोक्तपरामर्शे 'अनुश्रुतम्' अवधारितं, गुरुभिरुच्यमानमिति शेषः, औपपातिकमिति च ब्रुवतोऽस्यायमाशयः-यदि गर्भजत्वं भवेत् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम्, औपपातिकत्वे त्वन्तर्मुहूर्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसम्भवः?, तथा च-'आहाकम्मेहिं ति आधानमाधाकरणम्, आत्मनेति गम्यते, तदुपलक्षितानि कर्माण्याधाकर्माणि, तैः आधाकर्मभिः-स्वकृतकर्मभिः, यद्वाऽऽर्षत्वात्, ‘आहेति' -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org