SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-५,[नि. २३५] २०१ प्रयच्छामि?, तेन भण्णति-मज्झ तमेव गामं देहि जत्थ अच्छामि, तेन सो दिनो, पच्छा तेन तम्मि पच्चंतगामे अच्छू रोविओ तुंबीतो य, निप्फन्नेसु तुंबाणि गुले सिद्धिउं तं गुडतुंबयं भुक्त्वा २ गायति स अट्टमट्टं च सिखिज्जा, सिक्खियं न निरत्थयं । अट्टमट्टपसाएण, भुंजए गुडतुंबयं ।। तेन तानि वडपत्ताणि अनट्ठाए छिद्दियाणि, अच्छीणि पुन अट्ठाए पाडियानि । दण्डमारभत इत्युक्तं, तत्किमसावारम्भमात्र एवावतिष्ठते इत्याह-'भूयगाम'ति भूता:-प्राणिनस्तेषां ग्राम:समूहस्तं विविधैः प्रकारैहिनस्ति-व्यापादयति, अनेन च दण्डत्रयव्यापार उक्त इति सूत्रार्थः ।। किमसौ कामभोगानुरागेणैतावदेव कुरुते ? उतान्यदपीत्याहमू. (१३७) हिंसे बाले भुसावाई, माईले पिसुने सढे। भुंजमाणे सुरं मंसं, सेयमेयंति मन्त्रइ। वृ. हिंसनशीलो हिंस्त्रः अनन्तरोक्तनीत्या, तथैवंविधश्च सन्नसौ 'बालः' उक्तरूपो 'मृषावादी'ति अलीकभाषणशीलः, 'माईल्ले'त्ति माया-परवञ्चनोपायचिन्ता तद्वान्, 'पिशुनः' परदोषोद्घाटक: 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति, मण्डिकचौरवत्, अत एव च भुञ्जानः 'सुरां' मद्यं 'मांसं' पिशितं 'श्रेयः' प्रशस्यतरमेतदिति मन्यते, उपलक्षणत्वात् भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुन' इत्यादि, तदनेन मनसा वचसा कायेन चासत्यत्वमस्योक्तामिति सूत्रार्थः ।। पुनस्तद्वक्तव्यतामेवाहमू.(१३८) कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु। दुहओ मलं संचिणइ, सिसुनागुव्व मट्टियं । वृ.'कायस'त्ति सूत्रत्वात् कायेन-शरीरणे वचसा-वाचा उपलक्षणत्वात् मनसा च 'मत्तो' दृप्तः, तत्र कायमत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान्, यद्वाऽहोऽहं बलवान् रूपवान् वेति चिन्तयन् वचसा स्वगुणान् ख्यापयन् अहोऽहं सुस्वर इत्यादि वा चिन्तयन्, मनसा च मदाध्मातमानस: अहोऽहमवधारणाशक्तिमानिति वा मन्वानो वित्ते' द्रविने 'गृद्धो' गृद्धिमान्, चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः, तत्र वित्ते गृद्ध इति अदत्तादानपरिग्रहोपलक्षणं, तद्भावभावित्यात्तयोः, स्त्रीषु गृद्ध इत्यनेन मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसर्वस्वभूता इति मन्यते, तथा च तद्वचः "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥" तदभिरतिमांश्च मैथुनासेव्येय भवति, स एवंविधः किमित्याह-'दुहतो'त्ति द्विधा-द्वाभ्यां रागद्वेषात्मकाभ्यां बहिरन्तः प्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां, सूत्रत्वाद्विविधं वा इहलोकपरलोकवेदनीयतया पुण्यपापात्मकतया वा, 'मूलम्' अष्टप्रकारं कर्म 'संचिनोत्ति' बन्धाति, क इव किमित्याह-'शिशुनागो' गण्डूपदोऽलस उच्यते, स इव मृत्तिकां, स हि स्निग्धतनुतया बही रेणुभिरवगुण्डयते, तामेव चाश्नीते इति बहिरन्तश्च द्विधापि मलमुपचिनोति, तथाऽयमपि, एतद्दृष्टान्ताभिधाने त्वयभिप्रायो-यथाऽसौ बहिरन्तश्चोपचितमलः खरतरदिवाकरकरनिकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy