________________
१९४
उत्तराध्ययन- मूलसूत्रम् - १-५/१२८ आत्मप्रदेशो ह्येकैकस्तत्प्रदेशैरनन्तानन्तैरावेष्टितः, संवेष्टितः, तथा च वृद्धव्याख्या-इदाणीं पदेसग्गं - अनंताणंता आउगकम्मपोग्गला जेहिं एगभेगो जीवपएसो आवेढिय परिवेढितो, इति गाथार्थः ॥ सम्प्रति कति म्रियन्ते एकसमयेनेतिद्वारमाह
नि. [ २२७ ]
नि. [२२८ ]
दुन्नि व तिन्नि व चत्तारि पंच मरणाइ अवीइमरणंमि । कइ मरइ एगसमयंसि विभासावित्थरं जाणे ॥ सव्वे भवत्थजीवा मरंति आवीइअं सया मरणं । ओहिं च आइअंतिय दुन्निवि एयाइ भयणाए । ओहिं च आइअंतिअ बालं तह पंडिअं च मीसं च । छ केवलमरणं अनुत्रेणं विरुज्झति ॥
नि. [२२९]
वृद्वे वा त्रीणिवा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमादेकस्मिन् समये सम्भवन्ति, आवीचिमरणे सतीति शषः, अनेन चास्य सततावस्थितत्वमेतदविवक्षया च तद्ययादिभेदपरिकल्पनेत्याह, कति म्रियन्त एक समये ?, इति चतुर्थद्वारस्य विशेषेण भाषणं विभाषणं विभाषा व्याख्या विविधैर्वा प्रकारैर्भाषणं विभाषा-भेदाभिधानं तया विस्तर:- प्रपञ्चस्तं विस्तरं जानीहि जानीयाद्वा, निगमनमेतत्, प्रस्तुतमेवार्थं प्रकटयितुमाह'सर्वे' निरवशेषाः, तत् किं मुक्तिभाजोऽपीत्याह- 'भवस्थजीवाः ' भवन्त्यस्मिन् कर्म्मवशवर्तिनो जन्तव इति भवः तत्र तिष्ठन्ति भवस्थाः ते च ते जीवाश्चेति विशेषणसमासः, म्रियन्ते, आवीचिकवीचिकं वा मरणमाश्रित्येति शेषः, यद्वा विभक्तिव्यत्ययादावीचिकेन मरणेन म्रियन्ते 'सदा' सर्वकालं, 'ओहिंच 'त्ति अवधिमरणं, चशब्दो भिन्नक्रमः, ततश्च 'आइयंतिय'न्ति आत्यन्तिकमरणंच, द्वे अप्येते 'भजनया' विकल्पनया, किमुक्तं भवति ? - यद्यप्यावीचिमरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु सम्भवतः तथाऽप्यायुः क्षयसमय एव तयोः सम्भवान्न सदाभाव:, अत आवीचिकमरणमेव सदेत्युक्तम्, अनेनावीचिमरणस्य सदाभावेन लोकेमरणत्वेनाप्रसिद्धः अविवक्षायां हेतरुक्त इति भावनीयं ।
सम्प्रति 'दोन्निवि' इत्यादि व्यक्तीकरोति- 'ओहिं च आइयंतिय'त्ति, चशब्दो भिन्नक्रमः, ततोऽवधिमरणमात्यन्तिकमरणं च, 'बालं' बालमरणं च, तथेत्युत्तरभेदापेक्षया समुच्चये, ‘पण्डितं च' पण्डितमरणं, 'मिश्रं च' बालपण्डितमरणं च चशब्दाद्वैहायसगृध्रपृष्ठमरणे, भक्तपरिज्ञेङ्गिनीपादपोपगमनानि च, 'अन्योऽन्येन' परस्परेण विरुध्यन्ते, युगपदसम्भवात्, तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अन्यतरद्वालमरणं चेति द्वे, तद्भवमरणेन सह त्रीणि, वशार्तेन चत्वारि, कथञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण पञ्च, आह-बलन्मरणान्त: शल्यमरेण अपि बालमरणभेदावेव, यत आगम: - "बालमरणे दुवालसविहे पन्नत्ते, तंजहा - बलायमरणे वसट्टमरणे असंतोसल्लमरणे तब्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणप्पवेसे विसभक्खणे सत्थोवहणणे वेहाणसे गिद्धपट्टे' त्ति, एतेषु च यद्यपि गिरिपतादिपट्कस्य वैहायस एवान्तर्भावः तथापि वलन्मरणान्त: शल्यमरणयोः प्रक्षेपे कथं नोक्तसङ्ख्याविरोध: ?, उच्यते, इहाविरतस्यैव बालमरणं विवक्षितम् ।
उक्तं हि-‘अविरयमरणं बालमरणं' अनयोस्त्वेकत्र संयमस्थानेभ्यो निवर्तनम्, अन्यत्र
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International