________________
अध्ययनं-५,[नि. २२९] मालिन्यमानं विवक्षितं, न तु सर्वथा विरतेरभाव एवेति कथं बालमरणे सम्भवः ?, तथा छद्मस्थमरणमपि विरतानामेव रूढमिति नोक्तसङ्ग्याविरोधः, एवं देशविरतस्यापि दव्यादि भङ्गभावना कार्या, नवरं बालमरणस्थाने बालपण्डितमरणं वाच्यं, विरतस्य त्ववध्यात्यन्तिकमरणयोरन्यतरत् पण्डितमरणं चेति द्वे, छद्मस्थकेवलिमरणयोश्चान्यतरदिति त्रीणि, भक्तपरिज्ञेङ्गिनीपादपोपगमनानामन्यतरेण सह चत्वारि, कारणिकस्य तु वैहायसगृध्रपृष्ठयोरन्यतरेण सह पञ्च, दृढसंयम प्रत्येवमुक्तं, शिथिलसंयमस्य त्ववध्यात्यन्तिकमरणयोरन्यतरत्, कुतश्चित्कारणाद्वैहायसगृध्रपृष्ठयोश्चान्यतरदिति द्वे, कथञ्चिच्छल्यसम्भवे चान्तःशल्यमरणेन सह त्रीणि, वलन्मरणेन सह चत्वारि, छद्मस्थमरणेन तु पञ्च, पण्डितमरणस्य यथोक्तभक्तपरिज्ञानादीनां वा विशुद्धसंयमत्वादस्याभाव एवेति, आह-विरतस्यावस्थाद्वयेऽपि तद्भवमरणप्रक्षेपे कथं न षष्ठमरणसम्भवः?, उच्यते, विरतस्य देवेष्वेवोत्पाद इति तत्रै वोत्पत्त्यभावन्न तद्भवमरणसम्भव इति गाथात्रयार्थः । गतं कति म्रियन्त एकसमय इति द्वारम्, इदानी कतिकृत्वो म्रियते . एकैकस्मिन् ? इति द्वारमाहनि.[ २३०] संखमसंखमनंता कमो उ इक्किक्कगंमि अपसत्थे।
सत्तट्ठग अनुबंधो पसत्थए केवलिंमि सई ।। वृ. 'संखमसंखं'त्ति आर्षत्वात् सङ्ख्याः-असङ्ख्याताः असङ्ख्या-अविद्यमानसङ्ख्याः अनन्ता-अपर्यवसिता, वारा इति प्रक्रमः, 'कमो उ'त्ति क्रमःपरिपाटी, तुशब्दश्च कायस्थितेरल्पबहुत्वापेक्षयाऽयं ज्ञेय इति विशेषद्योतकः, एक्केक्कगंमि'त्ति एकैकस्मिन् 'अप्रशस्ते' बालमरणादौ निरूप्यमाणे, तत्र सामान्येन पञ्चेन्द्रियाविरतदेशविरतौ च सङ्ख्याताः, शेषाः पृथिव्युदकाग्नियुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः असङ्ख्याताः, वनस्पतयोऽनन्ता, एते हि कायस्थित्यपेक्षया यथाक्रमं बहुबहुतरबहुतमस्थितिभाज इतिकृत्वा।
प्रशस्ते कति वारा म्रियत इत्याह-'सत्तट्ठग'त्ति सप्त वाऽष्ट वा सप्ताष्टास्ते परिमाणमस्येति सप्ताष्टकः, कोऽसौ ?-'अनुबन्धः' सातत्येन भवनं तन्मरणानामिति, ततोऽयमर्थ:-सप्त वा अष्ट वा वारा म्रियते, क्व?-'प्रशस्तके' सर्वविरतिसम्बन्धिनि पण्डितमरणे, इह च चारित्रस्य निरन्तरमवप्त्यसम्भवात् तद्वत एव च प्रशस्तमरणभावादाव्यवधानामपि देवभवैराश्रीयते, 'केवलिनि' यथाख्यातचारित्रवति समत्पन्नकेवले 'सइंति सकृदेकमेव मरणमिति । उक्तं कतिकृत्वो म्रियत एकैकस्मिन्निति द्वारं, सम्प्रति कतिभाग एकैकस्मिन्मरणे नियत इति द्वारमाहनि.[ २३१] मरणे अनंतभागो इक्किक्के मरइ आइमं मोत्तुं ।
अनुसमयाई नेयं पढमचरिमंतरं नत्थि ।। - वृ. 'मरणे' प्रागुक्तरूपे अनन्तभाग एकैकस्मिन् म्रियते, किं सर्वस्मिन्नपि ? नेत्याह'आदिमम्' आवीचिमरणं, तस्यैवाद्यत्वात्, ‘मुक्त्वा' अपहाय, इयमत्र भावना-शेषमरणस्वामिनो हि सर्वजीवापेक्षया अनन्तभाग एवेति तेष्वनन्तो भागो म्रियत इत्युच्यते, आवीचिमरणस्वामिनस्तु सिद्धविरहिताः सर्व एव जीवाः, ते चानन्ता इतिकृत्वाऽनन्तभागहीनाः सर्वे जीवा म्रियन्ते इत्युच्यते। उक्तं कतिभागो म्रियते एकैकस्मिन्निति द्वारम्, अधुनाऽनुसमयद्वारमाह'अनुसमय'त्ति समयं समयमनु अनुसमयं, वीप्सायामव्ययीभावः, ततश्चानुसमयं-सततम्,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only