SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - -५, [ नि. वैतत्, उक्तं हि २२५ ] “पढमंमि य संघयणे वट्टंते सेलकुड्डुसामाणे । तेसिंपि य वोच्छेओ चोद्दसपुव्वीण वोच्छेए । ' कथं चान्यथैवंविधविशिष्टधृतिसंहननाभावे "पुव्वभवियवेरेणं देवो साहरइ कोऽवि पायाले । मा सो चरिमसरीरो न वेयणं किंपि पावेज्जा ॥१॥ तथा 'देवो नेहेन नयइ देवारनं व इंदभवनं वा । जहियं इट्ठा कंता सव्वसुहा हुंति सुहभावा ॥ २॥ उप्पन्ने उवसग्गे दिव्वे मानुस्सए तिरिक्खे य । सव्वे पराजिनित्ता पाओवगया परिहरंति ||३|| पुव्वावरउत्तरेहिं दाहिणवाएहिं आवडंतेहिं । जह नवि कंपइ मेरू तह झाणातो नवि चलंति ॥४॥" इति मरणविभक्तिकृदुक्तं महासामर्थ्यं सम्भवि, किञ्च तीर्थकरसेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चाविशिष्टसाधुसेवितत्वादन्यथात्वं, तथा चावादि १९३ "सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वंगुरू सव्वहिया सव्वे मेरूसु अहिसित्ता ॥१॥ सव्वाहि लद्धीहिं सव्वेऽवि परीसहे पराजित्ता । सव्वेऽविय तित्थयरा पातोवगया उसिद्धिगया ||२|| अवसेसा अनगारा तीयपडुप्पन्नऽनागया सव्वे । ती पातोवगया पच्चक्खाणिगिणि केती ॥३॥" इति कृतं प्रसङ्गेनेति गाथार्थः । इत्थं प्रतिद्वारगाथाद्वयवर्णनात् मूलद्वारगाथायां मरणविभक्तिप्ररूपणाद्वारमनुवण्णितम्, अधुनाऽनुभावप्रदेशाग्रद्वारद्वयमाह नि. [२२६ ] सोवकम्मे अ निरुवक्कमो अ दुविहो ऽनुभावमरणंमि । आउगकम्मपएसग्गनंतनंता पएसेहिं ।। वृ. सहोपक्रमेण-अपवर्तनाकरणाख्येन वर्तत इति सोपक्रमश्च, निर्गत उपक्रयान्निरुपक्रमश्च द्विविधो, द्वैविध्यं चोक्तभेदेनैव, कोऽसौ ? - अनुभाव - अनुभागः, क्व ? - 'मरणे' इत्यर्थात् मरणविषयायुषि तत्र हि सप्तभिरष्टमिर्वाऽऽकर्षैर्गवामिव मरुषु जलगण्डूषग्रहरूपैर्यत्पुद्गलोपादानं तदनुभागोऽतिदृढ इत्यपवर्तयितुमशक्यतया निरुपक्रमुच्यते, यत्तु षड्भिः पञ्चभिश्चतुर्भिर्वा आगृहीतं - दलिकं तदपवर्तनाकरणेनोपक्रम्यते इति सोपक्रमं न चैतदुभयमप्यायुः क्षयात्मनि सम्भवति, तथा एति याति च इत्यायुस्तन्निबन्धनं कर्म्म आयुः कर्म्म तस्य विभुक्तमशक्यतया प्रकृष्टा देशा: प्रदेशास्तेषामग्रं परिमाणमायुः कर्म्मप्रदेशाग्रम्, अनन्तानन्ताः - अनन्तानन्तसङ्ख्या परिमिता मरणप्रक्रमेऽप्यर्थादायुः पुद्गलास्तद्विषयत्वाच्च मरणस्यैवमुपन्यासः, किमेतान्तः कृत्स्नेऽप्यात्मनि ?, अत आह- 'पएसेहिं 'ति प्रक्रमात् सुब्व्यत्ययाच्चात्मप्रदेशेषु, 28/13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy