________________
उत्तराध्ययन- - मूलसूत्रम् - १-५/१२८ इत्यागमवचनाच्चतुर्वी धाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इङ्गयते--प्रतिनियतप्रदेश एव चेष्टयते अस्यामनशनक्रियायामितीङ्गिनी, पादैः अधःप्रसप्पिमूलात्मकैः पिबति पादपो-वृक्षः, उपशब्दश्चोपमेतिवत्सादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति - सादृश्येन प्राप्नोतीति पादपोपगमं, किमुक्तं भवति ? - यथैव पादपः क्वचित् कथञ्चिन्निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते, तथाऽयमपि भगवान् यद् यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयति, तथा च प्रकीर्णकृतनिच्चल निप्पडिकम्मो निक्खिवए जं जहिं जहा अंगं । एयं पादोवगमं नीहारिं वा अनीहारिं ॥ १ ॥ पातोवगमं भणियं सम विसमो पायवोव्व जह पडितो । नवरं परप्पतोगा कंपेज्ज जहा फलतरूव्व ॥२॥"
१९२
--
चः समुच्चये, इह चैवंविधानशनोपलक्षितानि मरणान्यप्येवमुक्तानि, अत एवाह - त्रीणि मरणानी, एतस्वरूपं च यथेदं विधेयं यच्चात्र सपरिकर्म्म अपरिकर्म्म च इत्यादिकं सूत्रकार एवोत्तरत्र तपोमार्गनाम्नि त्रिंशत्तमाध्ययनेऽभिधास्यत इति निर्युक्तिकृता नोक्तम् । द्वारनिर्देशाच्चावश्यं किञ्चिद्वाच्यमितिमत्वेदमाह- 'कण्णस' त्ति सूत्रत्त्वात्, कनिष्ठं- लघु जघन्यमितियावत्, मध्यमं - लघुज्येष्ठयोर्मध्ये भावि, ज्येष्ठम् - अतिशयवृद्धमृत्कृष्टमित्यर्थः, एषां द्वन्दः तत एतानि, धृतिः - सयमं प्रति चित्तस्वाथ्यं संहननंशरीरसामर्थ्यहेतुः वज्रऋषभनाराचादि ताभ्यां प्राकृतत्त्वाच्चैकवचननिर्देशः, समाहाराश्रयणाद्वा, तुशब्दात्सपरिकर्म्मापरिकर्म्मतादिभिश्च विशेषैर्विशिष्टानि-विशेषवन्ति, इदमुक्तं भवति - यद्यपि त्रितयमप्येतत्
“धीरेणऽवि मरियव्वं कापुरिसेणवि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खु धीरतणे मरिउं ॥ संसाररंगमज्झे धीबलसंनद्धबद्धकच्छातो । हंतूण मोहमल्लं हरामि आराधनपडागं ॥२॥ जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियमुयारं । पच्छा निच्छयपत्थं उवेमि अब्भुज्जयं मरणं ||३||”
इति शुभाशयवानेव प्रतिपद्यते, फलमपि च विमानिकतामुक्तिलक्षणं त्रयस्यापि समानं, " एयं पच्चक्खाणं अनुपालेऊण सुविहिओ सम्मं । वेमाणितो व देवो हवेज्ज अहवाऽवि सिज्झिज्जा ।"
1
तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठात्त्वादिस्तद्विशेष उच्यते, तथाहि-भक्तपरिज्ञामरणमायिकादीनामप्यस्ति, यत उक्तम्
" सव्वावि य अज्जाओ सव्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥"
अत्र हि प्रत्याख्यानशब्देन भक्तपरिज्ञैवोक्ता, तंत्र प्राक् पादपोपगमनादेरन्यथाऽभिधानात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव सम्भवतीत्यार्यिकादिनिषेधत एवावसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेवेत्युक्तप्रायं, ततश्च वज्रऋषभनाराचसंहननिनामे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org