________________
अध्ययनं - ५, [ नि. २२३ ]
१९१
वृ. मन:पर्यवज्ञानिनोऽवधिज्ञानिनश्च, ज्ञानिशब्दस्य प्रत्येकमभिसम्बन्धात् श्रुतज्ञानिनो मतिज्ञानिनश्च 'म्रियन्ते' प्राणांस्त्यजन्ति ये ' श्रमणाः' तपस्विनः छादयन्ति छद्मानि - ज्ञानावरणादीनि तेषु तिष्ठन्तीति छद्मस्था: तेषां मरणं छद्मस्थमरणमेतत्, इह च प्रथमतो मन: पर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण एव तदुपजायत इति स्वामिकृतप्राधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं स्वधियैव हेतुरभिधेयः, केवलिमरणं तु ये केवलिनः -उत्पन्नकेवलाः सकलकर्म्मपुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशः प्राग्वदिति गाथार्थः ।। साम्प्रतं वैहायसगृध्रपृष्ठमरणे अभिधातुमाह
नि. [ २२४ ]
गिद्धाइभक्खणं गिद्धपिट्ठ उब्बंधणाई वेहासं ।
एए दुन्निवि मरणा कारणजाए अणुन्नाया ।।
वृ. ‘गृद्धाः' प्रतीतास्ते आदिर्येषां शकुनिकाशिवादीनां तैर्भक्षणं गम्यमानत्त्वादात्मनः तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृध्रादिभक्षणं, तत् किमुच्यत इत्याह'गिद्धपिट्ठ' त्ति गृधैः स्पृष्टं-स्पर्शनं यस्मिंस्तगृधध्रस्पृष्टम्, यदिवा गृध्राणा भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च मर्तुर्यस्मिंस्तद्गृध्रपृष्ठम्, स ह्यलक्तकपूणिकापुटप्रदानेनाप्यामानं गृध्रादिभिः, पृष्ठादौ भक्षयतीति, पश्चान्निर्दिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यान्तमाहसत्त्वविषयतथा कर्म्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाइ वेहासंति' उत्-ऊर्ध्वं वृक्षशाखादौ बन्धनमुद्बन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्बन्धनादि 'वेहास 'न्ति प्राकृततत्त्वाद्यलोपे वैहायसम्, उद्धद्धस्य हि विहायस्येव भवनमीति तत्प्राधान्यविवक्षयेत्थमुक्तम् । आह-एवं गृध्रपृष्ठस्याप्यात्मघातरूपत्वाद्वैहायसिकेऽन्तर्भावः, सत्यमेतत्, केवलमल्पसत्त्वैरध्यवसातुमशक्यताख्यापनार्थमस्य भेदेनोपन्यासः, ननु
“भावियजिनवयणाणं ममत्तरहियाण नत्थि हु विसेसो ।
-
अत्तामि परंमि य तो वज्जे पीडम भएवि ॥"
इत्यागमः, एते चानन्तरोक्ते मरणे आत्मविघातकारिणी, तथा चात्मपीडाहेतुरिति कथं नागमविरोध: ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाय 'चत्तारि विचित्ताइं विगईणिजूहियाई' इत्यादिसंलेखनाविधिः पानकादिविधिश्च तत्र तत्राभिहितः, दर्शनमालिन्यं चोभयत्रेत्यशङ्कयाह-‘एते' अनन्तरोक्ते 'द्वे अपि' गृध्रपृष्ठवैहायसाख्ये मरणे' 'कारणजाते' कारणप्रकारे दर्शनमालिन्यपरिहारादिके उदायिनृपानुमृततथाविधाचार्यवत्, अनुज्ञाते, तीर्थकृद्गणधरादिभिरिति, अनेन च सम्प्रदायानुसारितां दर्शनयन्नन्यथाकथने श्रुताशातनाया अतिदुरन्तत्वमाह इति गाथार्थः ॥ साम्प्रतमन्त्यमरणत्रयमाह
नि. [२२५ ]
भत्तपरिन्ना इंगिनी पाओवगमं च तिन्नि मरणाई । कन्नसमज्झिमजेठ्ठा धिइसंघयणेन उ विसिट्ठा ॥
वृ. भक्तं-भोजनं तस्य् परिज्ञा-ज्ञपरिज्ञयाऽनेकधेदमस्माभिर्भुक्तपूर्वमेतद्धेतुकं चावद्यमिति परिज्ञानं प्रत्याख्यानपरिज्ञया च
Jain Education International
" सव्वं च असनपानं चउव्विहं जा य बाहिरा उवही । . अब्भितरं च उवहिं जावज्जीवं च वोसिरे ॥"
For Private & Personal Use Only
www.jainelibrary.org