SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० उत्तराध्ययन-मूलसूत्रम्-१-५/१२८ प्रत्यवन्ध्यतया, सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति, 'तेषां' गौरवपङ्कमग्नानामिति गाथाद्वयार्थः । अस्यैवात्यन्तपरीहार्यतां ख्यापयन् फलमाहनि.[ २२०] एयं ससल्लमरणं मरिऊण दुरंतंमि। सुइरं भमंति जीवा दीहे संसारकंतारे॥ वृ. 'एतद्' उक्तस्वरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः, सुब्ब्यत्ययाद्वा एतेनसशल्यमरणेन 'मृत्वा'त्यक्त्वा प्राणान्, के?-जीवा इति सम्बन्धः, किम्?-'सुचिरं भ्रमन्ति' बहुकालं पर्यटन्ति, क्व?-संसार: कान्तारमिवातिगहनतया संसारकान्तार: तस्मिन्निति सण्टङ्कः, कीदृशि? महद्भयं यस्मिन् तन्महामयं तस्मिन्, तथा दुःखेनान्तः--पर्यन्तो यस्य तद्दुरन्तं तस्मिन्, तथा 'दीर्घ' अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्तव्यमेवेति भाव इति गाथार्थः ।। नि.[ २२१] मोत्तुं अकम्मभूमगनरतिरिए सुरंगणे अनेरइए। सेसाणं जीवाणं तब्भवमरणं तु केसिंचि॥ वृ. 'मुक्त्वा ' अपहाय, कान्?-'अकम्मभूमगरनतिरिए'त्ति सूत्रत्वात् अकर्मभूमिजाश्च ते देवगुरूत्तरकुर्वादिषूत्पन्नतया नरतियञ्चश्च अकर्मभूमिजनरतिर्यञ्चस्तान्, तेषां हि तद्भावनन्तरं देवेष्वेवोत्पादः, तथा 'सुरगणांश्च' सुरनिकायान्, किमुक्तं भवति?-चतुनिकायवर्तिनोऽपि देवान्, निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि चशब्दानवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भावनन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, 'शेषाणाम्' एतदुद्धरितानां कर्मभूमिजनरतिरश्चां 'जीवानां' प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् भवे वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्खयेयवर्षायुषामेवेति विशेषख्यापकः, असङ्खयेयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषां, किन्तु 'केषाञ्चित्' तद्भावोत्पादानुरूपमेवायुः कर्मोपचिन्वतामिति गाथार्थः ।। अत्रान्तरे प्रत्यन्तरेषु 'मोत्तूण ओहिमरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते॥ सम्प्रतिबालपण्डितमिश्रमरणस्वरूपमाहनि.[ २२२] अविरयमरणं बालं मरणं विरयाण पंडियं बिंति । जाणाहि बालपंडियमरणं पुन देसविरयाणं ॥ वृ.विरमणं विरतं-हिंसाऽनृतादेरुपरमणं न विद्यते तद् येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दशां वा मरणमविरतमरणं-बालमरणमिति ब्रुवत इति सम्बन्धः, तथा 'विरतानां' सर्वसावधनिवृत्तिमभ्युपगतानां मरणं पण्डित मिति प्रक्रमात्पण्डितमरणम्, 'बिति'त्ति ब्रुवते तीर्थकरगणधरादयः, जानीहि बालपण्डितमरण'मिति मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषं द्योतयति, देशात् सर्वविषयापेक्षया स्थूलप्राणिव्यपरोपणादेविरता देशविरतास्तेषामिति गाथार्थः। एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयितुमाहनि. [ २२३] मनपज्जवोहिनाणी सुअमइनाणी मरंति जे समणा। छउमत्थमरणमेयं केवलिमरणं तु केवलिणो॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy