________________
अध्ययनं - ५, [ नि. २१६ ]
१८९
द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्म्मदलिकानां पुनर्ग्रहणम्, परिणामवैचित्र्याद्, एवं क्षेत्रादिष्वपि भावनीयं । पश्चाद्धेनाऽऽत्यन्तिकमरणमाह
नि. [२१६-२ ] एमेव आइयंतियमरणं नवि मरइ ताइ पुनो ||
वृ. 'एवमेव' अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधं, विशेषस्त्वयम्'नमि मरइ ताइ पुनो'त्ति अपिशब्दस्यैवकारार्थत्वान्नैय तानि द्रव्यादीनि पुनभ्रियते, इदमुक्तं भवति-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभव म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाच्यं, त्रीण्यपि चामून्यवीच्यवध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नारकादिगतिभेदेन चतुर्विधत्वाद्विशतिभेदानीति गाथार्थः ॥ साम्प्रतं वलन्मरणमाहनि. [ २१७ ] संजमजोगविसन्ना मरंति जे तं वलायमरणं तु ।
इंदियविसयवसगया मरंति जे तं वसट्टं तु ॥
वृ. संयमयोगाः-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा अतिदुश्चरं तपश्चरणमाचरितुमक्षमा: व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्बलतां-संयमान्निवर्त्तमानानां मरणं वलन्मरणं, तुविशेषणे, भग्नव्रतपरिणतीनां व्रतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः ? तदभावे च तदिति । पश्चार्द्धेन वशार्तमाह- इन्द्रियाणां चक्षुरादीनां विषया:- मनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गता:-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् म्रियन्ते यत्तद्दशार्त्तमरणं, कथञ्चिद्रव्यपर्यायभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभेदतो वैचित्र्यख्यापनार्थ इति गाथार्थः । अन्तःशल्यमरणमाहनि. [२१८ ] लज्जाइ गारवेण य बहुस्सुयमएण वाऽवि दुच्चरिअं । जेनं कहंति गुरूणं न हु ते आराहगा हुंति ॥ गारवपंकानिबुड्डा अइयारं जे परस्स न कहंति । दंसणनाणचरिते ससल्लमरणं हवइ तेसिं ॥
नि. [२१९]
वृ. तत्र 'लज्जया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च' सातर्द्धिरसगौरवात्मकेन, मा भून्ममालोचनार्हमाचारार्यमुपसर्पतस्तद्वन्द्वनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, 'बहुश्रुतमदेन वा' बहुश्रुतोऽहं तत्कथमल्प श्रुतोऽयं मम शल्पमुद्धरिष्यति ?, कथं चाहमस्मै वन्दनादिकं दास्यामि ? अपभ्राजना हि इयं मम इत्यभिमानेन, अपिः पूरणे, ये गुरुकर्म्माणा 'न कथयन्ति' नालोचयन्ति, केषाम् ?, 'गुरुणाम्' आलोचनार्हाणामाचार्यादीनां, किं तद् ? –'दुश्चरितं' दुरनुष्ठितम् इति सम्बन्धः, 'नहु' नैव 'ते' अनन्तरमुक्तरूपा आराधयन्ति-अविकलतया निष्पादयन्ति सम्यग्दर्शनादीनि इत्याराधका भवन्ति, ततः किमित्याह-गौरवं पङ्कइव कालुष्यहेतुतया तस्मिन् निबुड्डा - इति प्राकृतत्वान्निमग्ना इव निमग्नाः तोडीकृततया, लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्यैवोपादानं तदस्यैवातिदुष्टताख्यापनार्थम्, 'अतिचारम्' अपराधं ये 'परस्य' आचार्यादेः न कथयन्ति, किंविषयम् ? इत्याह' दर्शनज्ञानचारित्र' दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषयं समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org