________________
उत्तराध्ययन- मूलसूत्रम् - १-५/१२८ सम्प्रत्यतिबहुभेददर्शनान्मा भूत् कस्यचिदश्रद्धानमिति सम्प्रदायगर्भं निगमनमाहसत्तरसविहाणाई मरणे गुरुणो भांति गुणकालिआ । तेसिं नामविभत्तिं वुच्छामि अहानुपुव्वीए ॥
नि. [२१४]
वृ. सप्तदश-सप्तदशसङ्ख्यानि विधीयन्ते - विशेषाभिव्यक्तये क्रियन्त इति विधानानि-भेदाः 'मरणे' मरणविषयाणि 'गुरवः' पूज्यास्तीर्थकृद्गणभृदादयो ' भणन्ति' प्रतिपादयन्ति, गुणैःसम्यग्दर्शनज्ञानादिभिः कलितायुक्ता गुणकलिताः, न तु वयमेव इत्याकूतं, वक्ष्यमाणग्रन्थसम्बन्धनार्थमाह-‘तेषां’ मरणानां नाम्नाम्-अभिधानानामनन्तरमुपदर्शितानां विभक्तिःअर्थतो विभागो नामविभक्तिस्तां 'वक्ष्ये' अभिधास्ये, 'अथे'त्यनन्तरमेव आनुपूर्व्या क्रमेणेतिनि. [ २१५ ] अनुसमयनिरंतरमवीइसन्नियं तं भांति पंचविहं ।
दवे खित्ते काले भवे य भावे य संसारे ॥
वृ. 'अनुसमयं' समयमाश्रित्य इदं च व्यवहितसमयाश्रयणतोऽपीति मा भूद्ग्रान्तिरत आह-निरन्तरं, न सान्तरम्, अन्तरालासम्भवात्, किं तदेवंविधम् ? -'अवीइसंनियं' ति प्राकृतत्वादा- समन्ताद्वीषय इव वीचयः प्रतिसमयमनुमानायुषोऽपरायुर्दलिकोदयात् पूर्व्वपूर्वार्दलिकविच्युतिलक्षणाऽवस्था यस्मिंस्तदाऽवीचि, ततश्चा वीचीति संज्ञा संजाता अस्मिंस्तारकादित्वात् ‘तदस्य सञ्जातं तारकादिभ्य इतजि' त्यनेनेत्यावीचिसंज्ञितम्, अथवा वीचि:विच्छेदस्तदभावादवीचि तत्संज्ञितम्, उभयत्र प्रक्रमान्मरणं, यद्वा संज्ञितशब्दः प्रत्येकमभिसम्बध्यते, ततश्च अनुसमयसंज्ञितं- निरन्तरसंज्ञितम् अवीचिसंज्ञितमिति एकार्थिकान्येतानि, 'तदि' त्यावीचिमरणं ' भणन्ति' प्रतिपादयन्ति 'पञ्चविधं' पञ्चप्रकारं, गणधरादय इति गम्यते, अनेन च पारतन्त्र्यं द्योतयति, तदेवाह
१८८
'दव्वे 'त्ति द्रव्यावीचिमरणं 'खेत्ते 'त्ति क्षेत्रावीचिमरणं 'काले 'त्ति कालावीचिमरणं 'भवे य’त्ति भवावीचिमरणं च 'भावे य'त्ति भावावीचिमरणं च, संसार इत्याधारनिर्देशः, तत्रैव मरणस्य सम्भवात्, तत्र द्रव्यावीचिमरणं नाम यन्नारकतिर्यग्नामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुः कर्म्मदलिकानामनुसमयमनुभवनाद्विचटनं तच्च नारकादिभेदाच्चतुर्विधम् एवं नरकादिगतिचातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्द्धव, ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुद्धैव, 'काल' इति यथाऽऽयुष्ककालो गृह्यते, न त्वद्धाकालः, तस्य देवादिष्वसम्भवात्, स च देवायुष्ककालादिभेदाचतुर्विधः, ततस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम्, एवं नरकादिचतुर्विधभवापेक्षया भवावीचिमरणमपि चतुधैव तेषामेव च नारकादीनां चतुर्विधमायुः क्षयलक्षणं भावं प्राधान्येनापेक्ष्य भावावीचिमरणमपि चतुधैव वाच्यमिति गाथार्थः ॥ अधुनाऽवधिमरणमाह
नि. [ २९६ - १] एमेव ओहिमरणं जानि मओ तानि चेव मरइ पुनो।
वृ. 'एवमेव' यथाssवीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं, तथाऽवधिमरणमपीत्यर्थः । तत्स्वरूपमाह - यानि मृतः, सम्प्रतीति शेषः, तानि चैव 'मरइ पुणो 'त्ति आषत्वात्तिव्यत्ययेन मरिष्यति पुनः, किमुक्तं भवति - अवधि:-मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International