________________
अध्ययनं ४, [ नि. २०७]
१८५
ततो मन इति सङ्कल्पमपि 'न कुर्यात्' न विदध्याद् आस्तां तत्प्रवत्तिमिति, अथवा मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दाः - स्त्रियः ता एव स्पर्शप्रधानत्वात् स्पर्शाः, ततश्च मन्दाश्च स्पर्शाः, बहूनां कामिनां लोभनीयाः - गृद्धिजनका बहुलोभनीया: यास्तासु 'तहप्पगारेसु 'त्ति लिङ्गव्यत्ययात्तथाप्रकारासु बहुलोभनीयासु मनोऽपि न कुर्याद्, इहच स्त्रीणामेव बहुतरापायहेतुत्वादित्थमुच्यते,
तथा चाह
" स्पर्शेन्द्रियप्रसक्ताश्च, बलवन्तो मदोत्कटाः । हस्तिबन्धकसंरक्ता, बध्यन्ते मत्तवारणाः ॥" इति
एवं च पूर्व्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स तु कथं भवतीत्यत आह‘रक्षयेत्’ निवारयेत्, कम्?-क्रोधम्' अप्रीतिलक्षणं, ‘विनयेत्' अपनयेत्'मानम्' अहङ्कारात्मकं, 'मायां' परवञ्चनबुद्धिरूपां न कुर्यात्, 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वयङ्गस्वभावं, तथा च क्रोधमानयोर्द्वेषात्मकत्वान्मायालो भयोश्च रागरूपत्वात्तन्निग्रह एव तत्परिहतिरिति भावनीयम् । अथवा स्पर्शपरिहारमभिदधता चतुर्थव्रतमुक्तं तच्च 'अबंभचेरं घोर पमायं दुरहिट्टमं 'त्ति वचनान्महाप्रमादरूपस्याब्रह्मणे निरोधकृदिति, तदभिधानाद्धिसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभिधानं रक्षेत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छते वान कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः ॥ सम्प्रति यदुक्तं- 'तम्हा समुट्ठाय पहाय कामे' इत्यादि, तत्कदाचिच्चरकादिष्वपि भवेत् अत आह-यद्वैतावता चारित्रशुद्धिरुक्ता, सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्शमिदमाह
मू. ( १२८ ) जे संख्या तुच्छपरप्पवादी, ते पेज्जदोसानुगया परज्झा। एए अहम्मुत्ति दुर्गुछमाणो, कंखे गुणे जाव सरीरभेए । त्तिबेमि
वृ. 'ये' इति अनिर्दिष्टस्वरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा संस्कृतागमप्ररूपकत्वेन संस्कृताः, यथा सौगताः, ते हि स्वागमे निरन्वयोच्छेदमभिधाय पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्वयि द्रव्यरूपमेव सन्तानमुपकल्पयांबभूवुः, साङ्ख्याश्चैकान्तनित्यतामुक्त्वा तत्त्वत: परिणामरूपां चैव पुनराविर्भावतिरोभावावुक्तवन्तो, यथा वा"उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानी च । सापेक्षनिरपेक्षाणि, ऋषिवाक्यान्यनेकशः ।। "
इतिवचनाद्वचननिषेधनसम्भवादिभिरुपस्कृतस्मृत्यादिशास्त्रा मन्वादयः, अत एव 'तुच्छ'त्ति तुच्छा यदृच्छाभिधायितया निःसाराः 'परप्पवाइ' त्ति परे च ते स्वतीर्थकव्यतिरिक्ततया प्रवादिनश्च परप्रवादिनः, ते किमित्याह - 'पेज्जदोसाणुगया' प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगता:, तथाहिसर्वथा संवादिनि भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनं वचननिषेधनसम्भावनादि वा न रागद्वेषाभ्यां विनेति भावनीयम्, अत एव च 'परज्झ' त्ति देशीपरत्वात्परवशा रागद्वेषग्रहग्रस्तमानसतया न ते स्वतन्त्राः, यदि त एवंविधास्ततः किमित्याह- 'एते' इति अर्हन्मतबाह्याः, अधर्महेतुत्वादधर्म्मः, 'इती'त्यमुनोल्लेखेन 'दुगुंछमाणो 'त्ति जुगुप्समानः उन्मार्गानुयायिनोऽमि इति तत्स्वरूपमवधारयन्, न तु निन्दन्, निन्दाया: सर्वत्र निषेधात्, तदेवंविधश्च किं कुर्यादित्याह'काङ्क्षत्' अभिलपेत् ‘गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान्, किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org