________________
१८६
उत्तराध्ययन-मूलसूत्रम्-१-४/१२८ नियतकालमेवोतान्यथेत्याह-यावच्छरीरात् औदारिकात्पञ्चप्रकाराद्वा भेदः-पृथग्भावः शरीरभेदो, मरणं विमुक्तिर्वेतियावद्, अनेनेहैव समुत्थानं कामप्रहाणादि च तत्त्वतः, अन्यत्र तु संवृत्तिमदित्युक्तम्, एवं च कासात्मकसम्यक्त्वातिचारपरिहाराभिधानतः समक्त्वशुद्धिर्वेति सूत्रार्थः ।। इति परिसमाप्तौ, ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नया:, ते च पूर्ववत्।।
अध्ययनं - ४ समाप्तम्। मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे तृतीयं अध्ययनं सनियुक्तिः सटीकं समाप्तम्
( अध्ययनं-५ अकाममरणं वृ.।। उक्त चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने-'काङ्केत् गुणान् यावच्छरीरस्य भेद'इत्यभिदधता मरणं यावदप्रमादोऽनुवर्णिणतः, ततो मरणकालेऽप्यप्रमादो विधेयः, स च मरणविभागपरिज्ञानत एव भवति, ततो हि बालमरणादि हेयं हीयते पण्डितमरणादि चोपादेयमुपादीयते, तथा च तत्त्वतोऽप्रमत्तता जायते, इत्यनेन, सम्बन्धेनाऽऽयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयमुपवयं तावद्यावत्रामनिष्पन्ननिक्षेपे 'अकाममरणीयम्' इति नाम, तत्र च काममरणप्रतिपक्षोऽकाममरणम्, अतः कामानां मरणस्य च निक्षेपः कार्यः तत्र काममरणयोनिक्षेपं प्रतिपादयितुमाह नियुक्तिकृत्नि.[ २०८] कामाण उ निक्खेवो चउव्विहो छव्विहो य मरणस्स।
कामा पुव्वुद्दिट्ठा पगयमभिप्पेयकामेहं॥ वृ.काम्यन्त इति कामास्तेषां, तुः पूरणे निक्षेपश्चतुर्विधः, षड्विधश्च मरणस्य, भवतीत्युभयत्र गम्यते, तत्र कामाः पूर्वोद्दिष्टाः पूर्व-श्रामण्यपूर्वकनाम्नि दशवैकालिकद्वितीयाध्ययने उद्दिष्टाःकथिताः, तत्र तेषामनेकधा वर्णनात्, यैरत्र प्रकृतं तान् दर्शयितुमाह-'प्रकृतम्' अधिकृतम्, 'अभिप्रेतकामैः' इच्छाकामैरिति गाथार्थः ।। षड्विधं मरणमिति यदुक्तं, तत्र नामस्थापने प्रतीते एवेत्यनादृत्य शेषचतुष्टयमाह। अन्ये त्वत्र नामादिषड्विधनिक्षेपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थापने प्राग्वत्, द्रव्यादिचतुष्टयाभिव्यञ्जनामर्थमाहनि.[२०९] दव्वमरणं कुसुंभाइएसु भावि आउक्खओ मुणेयव्वो।
ओहे भवतब्भविए मनुस्सभविएण अहिगारो।। वृ.द्रव्यस्य मरणं द्रव्यमरणं, कुसुम्भादिकेषु, आदिशब्दादिन्नादिपरिग्रह:, यद्यस्य स्वकार्यसाधनंप्रति समर्थं रूपं तत्तस्य जीवितमिति रूढं, तदभावस्तु मरणं, ततश्च कुसुम्भादे रञ्जानादि स्वकार्यसामर्थ्य जीवितं, तदभावस्तु मरणं, तथा चलोके मृतं कुसुम्भकमरञ्जकं, मृतमन्नव्यञ्जनमित्याधुपदिश्यते, क्षेत्रमरणं तु यस्मिन् क्षेत्रे मरणम्-इङ्गिनीमरणादि वर्ण्यते क्रियते वा, यदा वा तस्य शस्याद्युत्पत्तिक्षमत्वमुपहन्यते तदा तत् क्षेत्रमरणं, कालमरणं यस्मिन् काले मरणमुपवर्ण्यते क्रियते वा, कालस्य वा ग्रहोपरागादिना वृष्टयादिस्वकार्याकरणम्, एते च सुगमत्वात्तत्त्वतो द्रव्यमरणाभिन्नत्वाच्च नियुक्तिकृता पृथग् नोक्ते, यत्तु निक्षेपगाथायां षड्विध इतिवचनात् अनयोर्भेदनाभिधानं तद्विवक्षितवस्तुवैशिष्टयदर्शकं, न हि ताभ्यां विना नियत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org