________________
उत्तराध्ययन- मूलसूत्रम् - १-४ / १२५ मकारोऽलाक्षणिकः, ततश्चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहिकमुदाहरणं वणिग्महिला, तत्र च सम्प्रदायः
एगा वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे निजनिजभियोगेसु न नियोजयति, न य तेसिं कालोववन्नं जहिच्छं आहारं भर्ति वा देति, ते सव्वे नट्ठा, कम्मंतपरिहानीए विभवपरिहानी, आगतो वाणियओ एवंमिहं पस्सिऊण पच्छा तेन निच्छूढा । अन्नं तु पुक्खलेणं सुकेणं वरेति, लद्धा य नेन, तेन तीसे नियगा भण्णंति-जइ अप्पाणं रक्खइ ता परिनेमित्ति, ताएय मुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा भण्णंति रक्खामि (क्खिहिइ)अप्पगं, सा तेन विवाया, गतो वाणिज्जेणं, सावि दासभयगकम्मकरातीणं संदेसं दारं तेसि पुव्वाहिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भई च तेसिं अकालपरिहीनं देइ, न य नियगसरीरसुस्सूसापरा, एवमप्पाणं रक्खंतीए भत्ता उवागओ, सो एवंविहं पस्सिऊण तुट्ठो, तेन सव्वसामिणी कया । इत्थं तावदिहैव गुणायाप्रमादो दोषाय च प्रमादः आस्तामन्यजन्मनीत्यभिप्रायेणात्रैवैहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः ॥
१८४
प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह
मू. ( १२६ ) मुहं मुहं मोहगुणे जयंतं, अनेगरुवा समणं चरंतं । फासा फुसंती असमंजसं च, न तेसु भिक्खू मनसा पउस्से ॥
वृ. 'मुहूर्मुहुः' वारं वारं, सततप्रवृत्त्युपलक्षणमेतत्, मोहयति - जानानमपि जन्तुमाकुलयति प्रवर्त्तयति चान्यथेहेति मोहः तस्य गुणाः मोहगुणाः - तदुपकारिणः शब्दादयः, तान् 'जयंतं' अभिभवन्तं, किमुक्तं भवति ? - अविच्छेदतस्तज्जयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्तज्जयं प्रति प्रवर्त्तमानं न तु तत एव विमुक्तसंयमोद्योगम्, 'अनेकरूपाः' अनेकमिति - अनेकविधं परुषविषमसंस्थानादिभेदं रूपं - स्वरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत्, 'फास 'त्ति स्पृशन्ति स्वानि स्वानीन्द्रियाणि गृह्यमाणतया इति स्पर्शाः शब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बन्धन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत्, चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शनविषया: -स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैव दुर्ज्यत्वाद्यापित्वाच्च, न 'तेषु' स्पर्शेषु 'भिक्षुः ' मुनिः मनसा उपलक्षणत्वाच्च वाचा कायेन च, यद्वाऽपिशब्दस्य लुप्तनिर्दिष्टत्वान्मनसाऽपि आस्तां वाचा कायेन वा 'पदूसे 'त्ति प्रदूष्येत् प्रदिष्याद्वा, किमुक्तं भवति ? - कर्कशसंस्तारकादिस्पर्शादौ हन्तोपतापिता वयमेतेयेति न चिन्तयेत् नैव वा वदेत्परिहरेद्वा तमिति ॥
मू. ( १२७) मंदा य फासा बहुलो भणिज्जा, तहप्पगारसुमणं न कुंज्जा । रक्खेज्ज कोहं विनएज्ज मानं, मायं न सेवेज्ज पहिज्ज लोहं ॥
वृ. 'मंदा ये 'ति सूत्रं, तथा मन्दायन्तीति मन्दा: - हिताहितविवेकिनमपि जनमन्यतां नयन्तीतिकृत्वा, चशब्दः पूर्वापेक्षया समुच्चये, स्पर्शाः प्राग्वच्छब्दादयः, बहून् लोभयन्तिविमोहयन्तीति बहुलाभनीया: 'अन्यत्रापी ति वचनात् कर्त्तर्यनीयः, अनेनात्याक्षेपकत्वमुक्तं, 'तहप्पगारेसु 'त्ति अपेर्गम्यमानत्वात्तथाप्रकारेष्वतिबहुलोभनीयेष्वपि मृदुस्पर्शमधुरसादिषु 'मन:' चित्तं न कुर्यात्, अथवा धातूनामनेकार्थत्वान्न निवेशयेत्, यद्वा सङ्कल्पात्मकेव मनः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International