________________
अध्ययनं-४,[नि. २०७]
१८३ चैवं प्रज्ञाप्यते-यथा भद्र! इदानीं भवतस्तत्कालात्पूर्वमसावुक्तहेतुतो न समस्ति, तथोत्तरकालमप्यसौ प्रमादिनस्तव न भवितेति, यदि वा एषा उपमेति-उपेत्युवयोगपूर्वकं मेति ज्ञानमुपमासम्प्रधारणा यदुत पश्चाद्धर्मं करिष्यामः इति शाश्वतवादिनां-निरुपक्रमायुषां, ये निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यन्ते तेषां युज्येतापि, न तु जलबुद्रुदसमानायुषां, तथा चासावुत्तरकालमपि छन्दोनिरोधमनाप्नुवन 'विषीदति' कथमहमकृतसुकृतः सम्प्रत्यनर्वाक पारं भवाम्भोधि भ्राम्यान् भविष्यामीत्येवमात्मकं वैक्लव्यमनुभवति, कदा?-शिथिलयति-आत्मप्रदेशान् मुञ्चति 'आयुषि' मनुष्यभवोपग्राहिण्यायुः कर्मणि, 'कालोवणीय'त्ति कालेनमृत्युना स्वस्थितिक्षयलक्षणेन वा समयेनोपनीतः-उपढौकितः तस्मिन्, क्व? इत्याह-'शरीरस्य' औदारिककायात्मकस्य 'भेदे' सर्वपरिशाटतः पृथग्भावे, तदिदमैदम्पर्यम्-आदित एव न प्रमादवद्भिर्भाव्यं, तथा चाह
"गमनं किमद्य किं श्वः कदाऽपि वा सर्वथा ध्रुवं क्वापि?
इति जानन्नपि मूढस्तथापि मोहात्सुखं शेते।" इति सूत्रार्थः । किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याहमू. (१२५) खिप्पं न सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे।
समेच्च लाभं समता महेसी, आयाणरक्खी चरमप्पमत्तो।। वृ. 'क्षिप्रं' तत्क्षण एव न शक्नोति' न समर्थो भवति, किं कर्तुम्? -- 'एतुं' गन्तुं प्राप्तुमितियावत्, कम्?-'विवेकं' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्मकं, न ह्यकृतपरिका झगिति तत्परित्यागं कर्तुमलम्, अत्रोदाहरणं ब्राह्मणी
एगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, तस्सऽन्नेण मरुतेन स्वद्धपलालितोकाउंदारिकादत्ता, सो य लोए दक्खिणातो लहति, परे विभवे वड्डति तेन सीसे भारियाए सुबहुं अलंकारंकारियं, सा निच्चमंडिया अच्छइ, तेन भण्णइ-एस पच्चंतगामो, ता तुमं एयाणि आभरणगाणि तिहिपव्वणीसु आविधाहि, कहिचोरा उवगच्छेज्जा तो सुहं गोविजंति, सा भणइ-अहं ताए वेलाए सिग्घभावे अवनेस्संति। अन्नया तत्थ चोरा पडिया, तमेव निच्चमंडियागिहं अनुपविट्ठा, सा तेहिं सालंकिया गहिया, सा य पणीयभोयणत्ता मंसोवचित्तपाणीपाया न सक्केइ कडगाईणि अवणेउं, ततो चोरेहिं तीसे हत्थे छेत्तूण अवनीया, गेण्हिउंच निग्गया। __ एवमन्योऽपि प्रागकृतपरिका न तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसस्तं तथा सति दूरापास्त एवेति, न च मरुदेव्युदाहरणं तत्राष्यभिधेयम्, आश्चर्यरूपत्वादस्य, न ह्येवं तीव्रभावा बहवः सम्भवन्ति, यत एवं तस्मात् 'सम्' इति सम्यकप्रवृत्त्या 'उत्थायेति च पश्चाच्छन्दो निरोत्स्याम इत्यालस्यत्यागेनोद्यमं विधाय, तथा पहाय कामे'त्ति प्रकर्षण-मनसाऽपि तदचिन्तनात्मके 'हित्वा'त्यक्त्वा कामान् इच्छामदनात्मकान् ‘समेत्य' सम्यग्ज्ञात्वा 'लोकं' समस्तप्राणिसमूह, कया?-'समतया' समशत्रुमित्रतया क्वचिदक्तद्विष्टतयेतियावत्, तथा च महर्षिः, सन् मह:-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महैषी वा, किमुक्तं भवति ?विषयाभिलाषविगमानिनिदान: सन् आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वाऽऽदीयते-स्वीक्रियते आत्महितमनेनेत्यादानं:-संयमः तद्रक्षी ‘चरमप्पमत्तो'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org