________________
उत्तराध्ययन- मूलसूत्रम् - १- ४ / ११८ पातकनिमित्तानुष्ठानसेवी, कथं पुनरसौ कृत्यत इति चेद - अत्रोच्यते सम्प्रदाय :एगंमि नयरे एगो चोरो, तेन अभिज्जतो घरगस्स फलगचियस्स पागारकविसीसगसंनिहं खत्तं खणियं खत्ताणि अनेगागाराणि कलसागिई नंदावत्तसंठियं पउमागिइं पुरिसागिई च, सोय तं कविसीसगसंठियं खत्तं खणतो घरसामिए निवेईओ, ततो तेन अद्धपविट्ठो पाएसु गहितो, मा पविट्ठो संतो पहरनेन पहरिस्सतित्ति, पच्छा चोरेणवि बाहिरत्थेण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहि उभयहा कड्डिज्जमाणो सयंकियपागारकविसीसगेहिं फालिज्जमाणो अत्ताणो विलवित्ति ।
१७२
एवममुनैवोदाहरणदर्शितन्यायेन 'प्रजा: ' हे प्राणिनः ! 'पेच्छ'त्ति पेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्रापि नोच्यते तत्रापि भावनीयम्, 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां परलोक इत्यपिशब्दार्थः, 'कृतानां' स्वयंविरचितानां 'कर्म्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्याद्, अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति-यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः स्वकृतनैव क्षत्रस्वननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च - 'एवं पया पेच्च इहं च 'त्ति, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधबाधानुभवनेन, काऽसौ ? - प्रजा, क्व ? - 'प्रेत्य' परभवे, ‘इहं चे 'ति इहलोके, किमिति प्रेत्येत्युच्यते- यावता इह कृंतमिहैवापगतमत आह-यत् 'कृतानां' कर्म्मणां मोक्षो नास्ति । इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा 'एवं पया पेच्च इहंपि लोए, न कम्मुनो पीहति तो कयाती' एवं प्रजा ! आमन्त्रणपदमेतत् प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतो: 'कदाचित्' कस्मिंश्चित्काले 'ने' ति निषेधे 'कम्मुणो 'त्ति कर्म्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत्-नाभिलाषमपि कुर्याद् आस्तां तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात्, तथा च वृद्धाः
एगमि नयरे एगेन चोरेण रत्तिं दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कयं, सुबहुं च दव्वाजायं नीनियं, नियघरं चऽनेन संपावियं । पहायाए रयणीए न्हाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाणणत्थं, जइ तावज्ज लोगो मं न यानिस्सइ ता पुनोवि पुव्वट्ठिइए चोरिस्सामीत्ति संपहारिऊण तंमि य खत्तट्ठाणे गओ, तत्थ य लोगो बहू मिलितो संलवतिकहं दुरारोहे पासए आरोढुं विमग्गेण खत्तं कयं ? कहं च खुड्डलएणं खत्तदुवारेणं पविट्ठो ?, पुणो य सहदव्वेण निग्गओत्ति । सो सुणेउं हरिसितो चिंतेइ - सच्चमेयं, किहऽहं एएण निग्गतोत्ति ?, अप्पाणो उदरं च कडिं च पलोएडं खत्तमुहं पलोएति ।
सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणितो, रायणो उवनीतो सासितो य ॥ एवं पापकर्म्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः । इह कृतानां कर्म्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित् स्वजनत एव तन्मुक्तिर्भविष्यति, अमुक्तौ वा विभज्यैवामी धनादिवद् भोक्षयन्त इति कश्चिन्मन्येत अत आह
मू. (११९ )
संसारमावन परस्स अट्ठा, साहारणं जं च करेति कम्म । कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उवेति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org