________________
अध्ययनं ४, [नि २०५ ]
-
१७१
पहाय ते पास पर्यट्टिए नरे, वेरानुबद्धा नरयं उवेंति ॥
वृ. ‘य' इति ये केचनाविवक्षितस्वरूपाः 'पापकर्मभिः' इति पापोपादानहेतुभिरनुष्ठानैः 'धनं' द्रव्यं 'मनुष्याः' मनुजाः तेषामेव प्रायस्तदर्थोपायप्रवर्त्तनादित्थमुक्तं, 'समाददते' स्वीकृर्वन्ति, 'अमतिम्' इति प्राग्वन्नञः कुत्सायामपि दर्शनात् कुमतिम् उक्तरूपां 'गहाय'त्ति गृहीत्वा सम्प्रधार्य, पठ्यते च - 'अमयं गहाये 'ति अशोभनं मतममतं - नास्तिकादिदर्शनम्, अथवा अमृतमिवामृतम् - आत्मनि परमानन्दोत्पादकतया तच्च प्रक्रमाद्धनं 'पहाय'त्ति प्रकर्षेण तन्मध्यादल्पस्याप्यग्रहणात्मकेन हित्वा त्यक्त्या 'तानि 'ति धनैकरसिकान् 'पश्य' अवलोकय, विनेयमेवाह, 'पर्याट्ठिए'त्ति आर्पत्वात् स्वत एवाशुभानुभावातः प्रवृत्तान् प्रवर्त्तितान्वा, प्रक्रमात्मपापकर्मोपार्जितधनेनैव, मृत्युमुखमिति गम्यते, 'नरान्' पुरुषान्, पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासार्थं वा, एकान्तक्षणिकपक्षे हि न यैरेव धनमुपार्जितं तेषामेव प्रवर्त्तनं, तथा च बन्धमोक्षाभावश्चेति भावः, एतच्च पश्य वैरं कर्म्म 'वेरे' वज्जे य कम्मे य' इति वचनात् तेन अनुबद्धा: - सततमनुगताः 'नरक' रत्नप्रभादिकं नारकनिवासम् 'उपयान्ति' तद्भवभावितया सामीप्येन गच्छन्ति, त एव मृत्युमुखप्रवृत्ता इति प्रक्रमः, यदि वा पाशा इव पाशाः-स्त्र्यादयस्तेषु प्रवृत्तास्तैर्वा प्रवर्त्तिताः पाशपवृत्ताः पाशप्रवर्त्तिता वा नरकमुपयान्तीति सम्बन्धः, ते हि द्रव्यमुपार्ण्य स्त्र्यादिष्वभिरयन्ते, तदभिरत्वा च नरकगतिभाज एव भवन्तीति भावः, , शेषं प्राग्वत् ।
1
तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्त्यागतो धर्म्यं प्रति मा प्रमादीरित्युक्तं भवति, नरकप्राप्तिलक्षणश्चा पायो न प्रत्यक्षेणावगम्येते (म्यत इती) हैव मृत्युलक्षणापायदर्शनमुदाहरणं, तत्र च वृद्धसम्प्रदायः - एगंमि नयरे एगो चोरो, सो रत्ति विभवसंपण्णेसु घरेसु खत्तं खणिउं सुबहुं दविनजायं घेत्तुं अप्पणो घरेगदेसे कूवं सयमेव खणित्ता तत्थ दविनजायं पक्खिवइ, जहिच्छियं च सुक्कं दाऊण कण्णगं विवाहेउं सूयं संति रत्ति उद्दवेत्ता तत्थेवागडे पक्खिवइ, मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पयासेस्संति, एवं कालो वच्चति । अन्नया तेणेगा कन्नया विवाहिया अतीव रूवरिसणी, सा पसूया संता तेण न मारिया, दारगो य, सो अट्ठवरिसो जाओ, तेन चितियं-अइचिरं कालं विधारिया, एयं पुव्वं उद्दवेडं पच्छा दारयं उद्दविस्संति, तेण सा उद्दवेडं अगडे पक्खित्ता, तेण य दारगेण गिहाओ निग्गच्छिऊण धाधाकया, लोगो मिलिओ, तेण भण्णइ-एएण मम माया मारयत्ति, रायपुरिसेहिं सुयं, तेहिं गहितो, दिट्ठो कूवो दव्वभरितो, अाणि यसबहूणि, सो बंधिऊण रायसभं समुवणीतो जायणापगारेहिं, सव्वं दव्वं दवावेऊण कुमारेण मारितो । एवमन्येऽपि धनं प्रधानमिति तदर्थं प्रवर्त्तमानास्तदपहायैहैवानर्थावापतितो नरकमुपयन्तीति सूत्रार्थः । इदानीं कर्मणामवन्ध्यतामभिदधत् प्रकृतमेवार्थं द्रढयितुमाहमू. ( ११८ ) तेने जहा संधिमुहं गहीए, सकम्पुणा किच्चइ पावकारी । एवं पया पिच्छ इहं च लोए, कडाण कम्माण न मोक्खो अत्थि ॥ वृ. ‘स्तेन:' चौरः यथेति दृष्टान्तोपदर्शने सन्धिः - क्षत्रं तस्य मुखमिव मुखं द्वारं तस्मिन् 'गृहीतः ' आत्तः 'स्वकर्मणा' आत्मीयानुष्ठानेन, किम् ? - कृत्यते' छिद्यते, 'पापकारी'
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org