________________
१७०
उत्तराध्ययन-मूलसूत्रम्-१-४/११६ नि.[ २०४] नोसुयकरणं दुविहं करणं तह य जुंजणाकरणं।
गुण तवसंजमजोगा जुंजण मनवायकाए य॥ वृ. इच ह नोशब्दस्य सर्वनिषेधाभिधायित्वात् श्रुतकरणं यन्न भवति तन्नो श्रुतकरणं, तच्च द्वेधा-गुणकरणं तथा च' तेनैव नोश्रुतत्वलक्षणेन प्रकारेण याजनाकरणं च, एतत्स्वरूपमाह'गुण'त्ति प्रक्रमाद् गुणकरणं, किमित्याह-तपश्च संयमश्च तप:संयमौ तयोरात्पगुणयोर्योगा:तत्करणरूपा व्यापारास्तपःसंयमयोगाः, किमुक्तं भवति?-तपःकरणम्-अनशनादिसंयमकरणं च-पञ्चाश्रवविरमणादि गुणकरणमुच्यते, गुणत्वं च तपःसंयमयोः कर्मनिर्जराहेतुत्वेनात्मोपकारित्वात्, 'झुंजण'त्ति योजनाकरणं 'मणवयणकाए य'त्ति चशब्दोऽवधारणे, विषयसप्तमी चेकं, ततो मनोवाक्कायविषयमेव, तत्र मनोविषयं सत्यमनोयोजनाकरणादिचतुर्धा, वाग्विषयमपि सत्यवाग्योजनाकरणादि चतुर्धेव, कायविषयं त्वौदारिककाययोजनाकरणादि सप्तधा, ततश्च द्वाभ्यां चतुष्काभ्यां सप्तकेन च मीलितेन पञ्चदशविधं योजनाकरणं, योजयति ह्येतत्पञ्चदशविधमपि कर्मणा सहात्मानमिति, आह च-"मनवयणकायकिरिया पन्नरसविहा उजुंजणाकरण"मिति गाथार्थः । येन करणेनात्र प्रकृतं तदाहनि.[२०५] कम्मगसरीरकरणं आउअकरणं असंखयं तं तु ।
तेनऽहिगारो तम्हा उ अप्पमा आ चरित्नंमि।। वृ.'कर्मकशरीरकरणं' कार्मणदेहनिर्वर्त्तनं, तदपि ज्ञानावग्णादिभेदतोऽनेकविधमित्याह'आयुःकरणम्' इति आयुष:-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निवर्त्तनमायुःकरणं, तत्किमित्याह-'असंखयं तं तु'त्ति तत्पुनरायुः करणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः
"फुट्टा तुट्टा व इहं पडमादी संधयंति नयनिउणा।
सा कावि नत्थि नीई संधिज्जइ जीवियं जीए।" एवं च 'स्वरूपतो हेतुतो विषयतश्च व्याख्ये'ति स्वरूपतो हेतुतश्च 'उत्तरकरणेण कय' मित्यादिना ग्रन्थेन व्याख्यातम्, अनेन त्वायुष्ककरणस्यासंस्कृतत्वोपदर्शनेन विषयतः, इदानीं तूपसंहारमाह-'तेनऽहिगारो'त्ति तेने'त्यागुःकर्मणाऽसंस्कृतेनाधिकारः, 'तम्हा उ'त्ति तस्मात् तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थ:-यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्त्तव्य इति गाथार्थः ।। एवं च व्याख्यातं संस्कृतम्, एतद्विपरीतं चासंस्कृतमिति।
सम्प्रति सूत्रमनुश्रियते-तत्र चासंस्कृतं जीवितमिति जरोपनीतस्य न त्राणमिति च मा प्रमादीरित्युक्तेऽर्थस्यापि पुरुषार्थतया सकलैहिकामुष्विकफलनिबन्धनतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाञ्चित्कदाशयः, यत आह
"धनेर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ति ।
धनिभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्धनान्यर्जयध्वं धनान्यर्जयध्वम् ।।" इति, तन्मतमपाकर्तुमाहमू. (११७) जे पावकम्मेहि धनं मनुस्सा, समाययंती अमतिं गहाय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org