________________
अध्ययनं-४,[नि. २०५]
१७३ वृ. पाठान्तरेऽपि पापकर्मस्पृहणं सदोषमिति निषिद्धं, ततस्तत्रापि स्यादेतत-यथेह सर्वं साधारणं तथाऽमुष्मिन्नपि भविष्यत्यत आह-'संसार' सूत्रं, संसरणं-संसार:-तेषु तेषूच्चावचेषु पर्यटनं तम् आपन्नः-प्राप्तः, परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, अर्थात्' इति अर्थप्रयोजनमाश्रित्य साधारणं जंच'त्ति चस्य वाशब्दार्थत्वा भिन्नक्रमत्वाच्च साधारणं वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति' निर्वर्तयति भवान्, कर्महेतुत्वात् कर्म क्रियत इति वा कर्म-कृष्यादिकर्म तस्यैव कृष्यादेः 'ते' तव हे कृष्यादिकर्मकर्तः ! 'तस्य' परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मानिमित्तं कृतस्येत्यभिप्रायः, 'वेदनं' वेदो विपाकः तत्तत्कर्मफलानु पवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' स्वजनाः, यदर्थं तत्कर्म कृतवान् करोषि वा ते 'बान्धवतां' बन्धुभावं तद्विभजनापनयानदिना 'उर्वति'त्ति उपयन्तीति, यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत्। तथा च वृद्धाः
एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरइ, एगा आभीरी उज्जुगा दोरूवए घेत्तूण कप्पासनिमित्तमुवट्ठिया, कप्पासो य तया समग्घो वट्टति, तेन वाणियएण एगस्स रूवस्स दो वारा तोलेउं कप्पासो दिन्नो, सा जाणइ-दोलवि रूवगाण दिन्नोत्ति, सा पोट्टलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रूवगो मुहा लद्धो, ततो अहं एयं उवभुंजामि, तेन तस्स रूवगस्स सभियं घयं गुलो विक्किणिउं घरे विसिज्जउं भज्जा संलत्ता-घयपुण्णे करेज्जासित्ति, ताए कया घयपुण्णा, जामाउगो से सवयंसो आगतो, सो ताए परिवेसिता घयपुण्णेहिं, सो भुंजिउं गतो, वाणियतो न्हानपयतो भोयणत्थमुवगतो, सो ताए परिवेसितो साभाविएण भत्तेण, भणतिकिं न कया घयउरा?, ताए भन्नति-कया, परं जामाउएण सवयंसेण खतिया?, सो चिंतेतिपेच्छ जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अवुनेण संजोईओ, सो य सचिंतो सरीरचिंताए निग्गतो, गिम्हो यवट्टति, सो मज्झण्हवेलाएकयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसमति, साहू य तेणोगासेण भिक्खणिमित्तं जाति, तेन सो भण्णति-भगवं ! एत्थं रुक्खच्छायाए विस्सम मया समाणंति, साहुणा भणियं-तुरियं मए नियकज्जेण गंतव्वं, वणिएण भणियं-किं भवयं ! कोऽवि परकज्जेणावि गच्छइ ?, साहुणा भणियं-जहा तुमं चिय भज्जाइनिमित्तं किलिस्ससि, स मर्मणीव स्पृष्टः, तेनेव एक्कवयणेण संबुद्धो भणति- भयवं! तुम्हे कत्थ अच्छह?, तेन भन्नइ-उज्जाणे, ततो तं साहुं कयपज्जत्तियं जाणिऊण तस्स सगासं गतो, धम्मं सोउं भणति-पव्वयामि जाव सयणं आपुच्छिऊणं, गतो निययं घरं, बंधवे भज्जं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज्जं करेस्सामि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ विढत्ते न किंचि गिण्हति, बीओ न किंचि मुल्लभंडं देति, पुव्वविद्वत्तं च विलुपेति, तं कयरेण सह वच्चामि?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुन्नातो बंधुसहितो गओ उज्जाणं, तेहि भन्नति-कयरो सत्थवाहो?, तेन भन्नति-ननु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो नियएणं भंडेणं ववहारावेइ, एएण सह निव्वाणपट्टणं जामित्ति पव्वइतो । यथा चायं वणिक् स्वजनस्वत्तत्वमालोचयन् प्रव्रज्यां प्रत्याहृतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचक:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org