SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४, [ नि. १९४] जीवकरणत्वेनेदमुक्तमित्यदोष इति गाथार्थः । अजीवप्रयोगकरणमाहअजियप्पओगकरणं दव्वे वन्नाइयाण पंचण्हं । चित्तकर(णं) कुसुंभाईसु विभासा उसेसाणं ॥ सुगमः ॥ भावार्थस्त्वयं नि. [१९५ ] जं जं निज्जीवाणं कीरइ जीवप्पओगओ तं तं । वणादि रूवकम्मादि वावि तदजीवकरणन्ति ॥ क्षेत्रकरणमाह न विना आगासेणं कीरइ जं किंचि खित्तमागासं । वंजणपरिआवन्नं उच्छुकरणमाइअं बहुहा ॥ वृ. आह-नित्यत्वात्क्षेत्रस्य करणं न संगच्छते तत्कथं क्षेत्रकरणसम्भवः ?, उच्यते, न विनाऽऽकाशेन 'क्रियते' निर्वत्र्त्यते 'यदि'ति यस्मात् 'किञ्चिदपि' अल्पमपि द्व्यणुकस्कन्धादि, अतस्तत्प्राधान्याद् द्रव्यकरणमपि क्षेत्रकरणमुच्यते इत्युपस्कारः, ननु यद्याकाशेन विना न किञ्चित् क्रियते तदाऽऽकाशकरणतैवास्तु कथं क्षेत्रकरणता ?, उच्यते, 'क्षेत्रम्' इति क्षेत्रशब्दवाच्यमाकाशं, तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः, तच्च व्यञ्जनंशब्दस्तस्य पर्यायः - अन्यथा च भवनं व्यञ्जनपर्यायः तमापन्नं प्राप्तं व्यञ्जनपर्यायापन्नम्, 'उच्छुकरणमाइयं'ति प्रक्रमान्मकारस्य चागमिकत्वादिक्षुक्षेत्रकरणादिकं 'बहुधा ' बहुप्रकरणम्, एकत्वेऽपि क्षेत्रस्येक्षुक्षेत्रकरणादिरूपेणाभिलापस्य बहुप्रकारत्वात्, तथा च सम्प्रदायः - - वंजणपरियावन्नं नाम जं खेत्तंति अभिलप्पति तंजहा-उच्छुखेत्तकरणं सालिखेत्तकरणं तिलखित्तकरणं एवमादि' अथवा यस्मिन् क्षेत्रे करणं क्रियते वर्ण्यते वा तत् क्षेत्रकरणमिति गाथार्थः ॥ कालो जो जावइओ जं कीरइ जंमि जंमि कालंमि । ओहणे नामओ पुन हवंति इक्कारसक्करणा ।। नि. [१९७] वृ. कालो 'य:' समयादिर्यावत्परिमाणः यत्करणनिष्पत्तावपेक्षाकारणत्वेन व्याप्रियते, किमुक्तं भवति ? - यस्य भोजनादेर्यावता घटिकाद्वयादिना कालेन निष्पत्तिस्तस्य स एव कालः करणं, तस्यैव तत्र साधकतमत्वेन विवक्षितत्वात्, यदि वा यत्करणं 'क्रियते' निष्पाद्यते यस्मिन् काले तस्य स एव कालः करणं कालकरणम् अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने'ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धा: - 'कालकरणं जं जावतिएण कालेन कीरति, जंमि वा कालंमि'त्ति, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्थमुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि' कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तत्क्रियासधकतमत्वादिति गाथार्थः ॥ कानि पुनस्तानीत्याहबवं च बालवं चेव, कोलवं थीविलोअणं । गराइ वणियं चेव, विट्ठी हवइ सत्तमी ॥ सउणि चउप्पयं नागं, किंसुग्घं करणं तहा । एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ नि. [१९८ ] नि. [१९९] वृ. बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिजं चैव विष्टिर्भवति सप्तमी । Jain Education International For Private & Personal Use Only www.jainelibrary.org वृ. अस्याक्षरार्थः उक्तं द्रव्यकरणं, नि [ १९६ ] १६७
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy