________________
१६८
उत्तराध्ययन- मूलसूत्रम् - १-४ / ११६ शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानी'ति शकुन्यादीनि चत्वारि 'ध्रुवाणी'त्यवस्थितानि शेषाणि करणानि 'चलानि' अनवस्थितानि सप्तेति श्लोकद्वयार्थः ॥
कस्य पुनः क्व ध्रुवत्वमित्याह
नि. [२०० ]
किण्हचउद्दसिरति सउणि पडिवज्जए सया करणं । इत्तो अहक्कमं खलु चउप्पयं नाग किंछुग्धं ॥
वृ. कृष्णचतर्द्दश्या रात्रौ शकुनिः प्रतिपद्यते, स्वरूपमिति शेषः, किं कदाचिदेवेत्याह'सदा' सर्व्वकालम्, अनेनास्यावस्थितत्वमाह, करणं प्राग्वद्, अत ऊर्ध्वं 'यथाक्रमं यथापरिपाटि 'खलुः' अवधारणे ततो यथाक्रममेव, चतुष्पदं नागं किंस्तुघ्नमिति, तत्रामावास्यायां दिने चतुष्पदं रात्रौ नागं प्रतिपादि च दिने किंस्तुघ्नमिति गाथार्थः ॥ सप्तविधकरणानयनोपायप्रतिपादिकेयं पूर्वाचार्यगाथा
"पक्खतिहितो दुगुणिया दुरूवणीहा य सुक्कपक्खमि । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥
एसाऽत्थ भावना-अभिमयदिणंमि करणजाणणत्थं पक्खतिहितो दुगुणियत्ति-अहिगयतिहिं पडुच्च अतीयातो दुगुणिज्जंति, जहा सुद्धचउत्थीए दुगुणा अट्ठ हवंति, 'दुरुवहीणं 'ति, सत्तहिए देवसियं करणं हवइ, एत्थ य भागा छच्चेव, तओ बवाइयक्कमेण चउप्पहरियकरणभावेण उत्थि दिवसे तो वणियं हवइ, त चिय रूवाहियं 'रत्ति' ति रत्तीए विट्ठी, कण्हपक्खे दोरूवा न पाडिज्जंति, एवं सव्वत्थ भावणा कायव्वा भणियं च
"किण्हनिसितईयदसमी सत्तमि चाउद्दसीसु अह विट्ठी । सुक्कचउत्थिक्कारसिणिसि अट्ठमी पुन्निमा य दिवा ॥ १ ॥
लौकिका अप्याहु:
"कृतृरा सदिवा दर भूतदिवा, शुचराष्टदिवैकरपूर्णदिवा | यदी चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः ||२|| " "सुद्धस्स पडिवइ निसि पंचमिदिणि अट्ठमीए राई तु । दिवसस्स वारसी पुण्णिमाय रतिं बवं होति ॥ १ ॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीएँ रत्तिंपि एक्कासी दिवसे बवकरणं होइ नायव्वं ||२||"
1
इति सम्प्रदायार्थ: ।। प्रागुद्दिष्टं भावकरणमाहनि. [२०१]
Jain Education International
भावकरणं तु दुविहं जीवाजीवेसु होइ नायव्वं । तत्थ उ अजीवकरणं तं पंचविहं तु नायव्व ॥
वृ. भावः पर्यायः तस्य करणं भावकरणं, तत्पुनः तुशब्दस्य पुनरर्थत्वात् 'द्विविधं' द्विभेदं, कथमित्याह - जीवाजीवेषु भवति 'ज्ञातव्यम्' अवबोद्धव्यं, किमुक्तं भवति ? - जीवविषयमजीवविषयं च, तत्राल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति- 'तत्थ जमजीवकरणं 'ति तत्र - तयोर्द्वयोर्मध्ये यदजीवकरणं तत् 'पञ्चविधं तु' पञ्चप्रकारमेव 'ज्ञातव्यम्' अवसेयमिति गाथार्थः । एतदेव स्पष्टयितुमाह
For Private & Personal Use Only
www.jainelibrary.org