________________
१५६
उत्तराध्ययन- मूलसूत्रम् - १-३/१०७ वास्त्विति चैको हिरण्यमिति द्वितीयः पशव इति तृतीयो दासपौरुषेयमिति चतुर्थः, एते किमित्याह-काम्यत्वात् कामा:- मनोज्ञशब्दादयः, तद्धेतवः स्कन्धाः पुद्गलसमूहाः ततः कामस्कन्धाः, यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिर्देशः, 'तत्र' तेषु कुलेषु 'से' इति स ‘उपपद्यते' जायते । अनेन चैकमङ्गमुक्तं, शेषाणि तु नवाङ्गन्याह-मित्राणि - सहपांशुक्रीडितादीनि सन्त्यस्येति मित्रवान्, ज्ञातयः - स्वजनाः सन्त्यस्येति ज्ञातिमान् भवति, उच्चैःलक्ष्म्यादिक्षयेऽपि पूज्यतया गोत्रं - कुलमस्येत्युच्चैर्गोत्रः, चः समुच्चये, वर्ण:- श्यामादि, स्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान्, 'अल्पातंक:' आतङ्कविरहितो नीरोग इत्यर्थः, महती प्रज्ञाऽस्येति महाप्रज्ञः - पण्डितः, 'अभिजात : ' विनीतः, स हि सर्वजनाभिगमनीयो भवति, दुर्विनीतस्तु शेषगुणान्वितोऽपि न तथेति, अत एव च 'जसो 'त्ति यशस्वी, तथा च सति 'बले'त्ति बली कार्यकारणं प्रति सामर्थ्यवान्, उभयत्र सूत्रत्वान्मत्वर्थीयलोपः, एकैकोऽपि हि मित्रत्वादिगुणस्तत्तत्कार्याभिनिर्वर्तनक्षमः, किं पुनरमी समुदिता: ?, शरीरसामर्थ्याच्चेह बलीति ॥ तत्किमेवंविध-गुणसम्पत्समन्वितं मानुषत्वमेव तत्फलमित्याह
मू. ( ११४ )
भोच्चा मानुस्सए भोए, अप्पडिरूवे अहाउयं । पुवि विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥
वृ. 'भुक्त्या' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिन: भुज्यन्त इति भोगाः - मनोज्ञशब्दादयस्तान्, अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्यमेषामित्यप्रतिरूपाः तान्, ‘यथायुः ' आयुषोऽनतिक्रमेण पूर्वं पूर्वजन्मविशुद्धो निदानादिरहितत्वेन 'सद्धर्म्म: (र्मा)' शोभनो धर्मोऽस्येति विशुद्धसद्धर्मा, केवलत्वाच्च 'धर्मादनिच् केवला' दिति इत्यनिच् भवति, 'केवलाम्' अलकङ्कां 'बोधि' जिनप्रणीतधर्म्मप्राप्तिलक्षणां 'बुध्ध्वा' अनुभूय प्राप्येतियावत् ॥ ततोऽपि किमित्याह
मू. (११५ )
चउरंगं दुल्लभं मच्चा, संजमं पडिवज्जिया । तवसा धुतकम्मंसे, सिद्धे भवति सासए ॥
वृ. चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितस्वरूपां 'दुर्लभा' दुष्प्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्ययोगविरतिरूपं 'प्रतिपद्य' आसेव्य, 'तपसा' बाह्येनान्तरेण च धुतम्अपनीतं, कम्मंसित्ति - कार्म्मग्रन्थिकपरिभाषा सत्कर्म्मानेनेति धुतकर्मांशः, तदपनयनाच्च बन्धादी - नामप्यर्थतोऽपनयनमुक्तमेव, यद्वा धुताः कर्म्मणोऽंशा-भागा येन स तथाविधः, किमित्याह - सिद्धो भवति, स च किमाजीविकमतपरिकल्पितसिद्धवत् पुनरिहैति उत नेत्यत आह-‘शाश्वतः’ शश्वद्भवनात्, शश्वद्भवनं च पुनर्भवनिबन्धनकर्म्मबीजात्यन्तिकोच्छेदात्, तथा चाह
-
"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नांकुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवांकुरः ॥ "
इति, इह पुनस्तस्येहागमनकल्पनमतिमोहविलसितं तथा च स्तुतिकृत् -"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठः । मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org