________________
अध्ययनं - ३, [ नि. १७८ ]
१५५
यक्षाः, यान्ति वा तथाविधर्द्धिसमुदयेऽपि क्षयमिति यक्षा, ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः, ‘उत्तरोत्तराः' उत्तरोत्तरविमानवासिन: उत्तरो वा उपरितनस्थानवर्त्त्यत्तर:- प्रधानो येषु मी उत्तरोत्तर: 'महाशुक्ला' अतिशयोज्ज्वलतया चन्द्रादित्यादयः, त इव 'दीप्यमानाः ' प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह - 'मन्यमाना' मनसि अवधारयन्तः शब्दादिविषयावाप्तिसमुत्पन्नरतिसागरावगाढतयाऽतिदीर्घस्थितितया वा, किम् ? - न पुनश्चवनम् अपुनश्चयवस्तम्-अधस्तिर्यगादिषूत्पत्त्यभावं, यदुक्तं ' मन्यमाना अपुनश्चयव 'मिति, तत्रोक्तमेव हेतुं सूत्रकृदाह-‘अप्पिया' इत्यादिना, 'अप्पिताः' प्राक्कृतसुकृतेन ढौकिता इव, केषाम् ? - काम्यन्ते-अभिलष्यन्ते इति कामा देवानां कामा देवकामाा:-दिव्याङ्गनाङ्गरपर्शादय:, 'कामरूवविउव्विणो'त्ति सूत्रत्वात्कामरूपविकरणा-यथेष्टरूपाभिनिर्वर्त्तनशक्तिसमन्विताः, कुर्व्वन्ति हि ते उत्तरवैक्रियाणि समवसरणागमनादिषु तथा तथेति, येऽपि प्रयोजनाभावान्न कुर्व्वन्ति तेषामपि शक्तिरस्त्येवेत्येवमुच्यते, 'ऊर्ध्वं' कल्पोपरिवर्त्तिषु ग्रैवेयकेष्वनुत्तरविमानकेषु च कल्पेषु सौधर्म्मादिषु यदि वा - ऊर्ध्वम् - उपरिकल्प्यन्ते विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्म्मादया ग्रैवेयकादयश्च सर्वेऽपि कल्पा एव तेषु 'तिष्ठन्ति ' आयुःस्थितिमनुपालयन्ति पूर्वाणि-वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि बहूनि जघन्यतोऽपि पल्योपमस्थितित्वात्, तत्रापि च तेषामसङ्ख्येयानामेव सम्भवात्, एवं वर्षशतात्यपि बहूनि पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यमिति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः । तत्किमेषामेतावदेव फलमित्याशङ्कयाह
मू. (१११ )
तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया । उवेंति मानुसं जोणि, से दसंगेऽभिजायाह ॥
वृ. 'तत्र' तेषूक्तरूपोत्पत्तिस्थानेषु 'स्थित्वा' इत्यासित्वा 'यथास्थानम्' इति यद्यस्य स्वानुष्ठानानुरूपं यदिन्द्रादिपदं तस्मिन् यक्षाः 'आयुः क्षये' स्वजीवितावसाने 'च्युताः ' भ्रष्टाः 'उवेन्ति' त्ति उपयन्ति मनुषाणामियं मानुषी तां 'योनिम्' उत्पत्तिस्थानं, तत्र च 'से' इति स सावशेषकुशलकर्मा कश्चिज्जन्तुः दशाङ्गानि भोगोपकरणानि वक्ष्यमाणान्यस्येति दशाङ्गः अभिजायते, एकवचननिर्देशस्तु विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादि रपि जायत इति वैचित्र्यसूचनार्थः, यद्वा ' से' इति सूत्रत्वात् तेषां दशानामङ्गानां समाहारो दशाङ्गी, प्राकृतत्वाच्च पुंसा निर्देशः, 'अभिजायते' उपभोग्यतयाऽऽभिमुख्येनोत्पद्यत इति सूत्रार्थः ॥ खित्तं वत्थु हिरन्नं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वन्नवं । अप्पायंके महापन्ने, अभिजाय जसो बले ।।
मू. (११२)
मू. (११३)
वृ. 'क्षि निवासगत्योः' क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रं - ग्रामारामादि सेतुकेतूभयात्मकं वा, तथा वसन्त्यस्मिन्नित्ति वास्तु-खातोच्छ्रितो भयात्मकं 'हिरण्यं' सुवर्णम्, उपलक्षणत्वात् रूप्यादि च, 'पशवः' अश्वादयः, दास्यते दीयते एभ्य इति दासाः-पोष्यवर्गरूपास्ते च पोरुसंति-सूत्रत्वात्पौरुषेयं च-पदातिसमूहः दासपौरुषेयं, ‘चत्वारः' चतु:सङ्ख्या:, अत्र हि क्षेत्रं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International