SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५७ अध्ययनं-३,[नि. १७८] सनप्रतिहतेष्विह मोहराज्यम् ।।" इति सूत्रार्थः ।। इतिः परिसमाप्तौ, ब्रवीमि प्राग्वदिति ।। उक्तोऽ-नुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव। अध्ययनं-३ समाप्तम् । मुनि दीपरत्नसागरेण संशोधीता सम्पादिता उत्तराध्ययनसूत्रे तृतीयअध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्तिः एवं शान्त्याचार्य रचिता टीका परिसमाप्ता। अध्ययनं - ४ असंस्कृतं वृ.।।ॐ नमः ।। उक्तं तृतीयमध्ययनम्, अधुना चतुर्थावसरः, तस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चत्वारिमनुष्यत्वादीन्यङ्गानि दुर्लभान्युक्तानि, इह तु तत्प्राप्तावपि महते दोषाय प्रमादो महते च गुणायाप्रमाद इति मन्यमानः प्रमादाप्रमादौ हेयोपादेयतयाऽऽह । इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्राग्वव्यावर्णनीयानि तावद्द्यावन्नामनिष्पन्ने निक्षेपे प्रमादाप्रमादमिति नाम, ततश्च प्रमाद इत्यप्रमाद इति च निक्षेप्तव्यमित्युभयनिक्षेपप्रतिपादविषयाऽऽह नियुक्तिकृत्नि.[१७९] नामंठवणपमाओ दव्वे भावे य होइ नायव्वो। एवेम अप्पमाओ चउव्विहो होइ नायव्वो॥ व.'नामंठवणपमाए'त्ति, प्रमादशब्द उभयत्र सम्बध्यते, ततश्च नामप्रमादः स्थापनाप्रमादः, 'दव्वे'इति द्रव्यप्रमादः 'भावे यत्ति' भावप्रमादश्च भवति ज्ञातव्यः, 'एवमेवे'त्ति नामस्थापनाद्रव्यभावभेदत एव अप्रमादश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ।। इह च नामस्थापने प्रतीते इत्यनादृत्य द्रव्यभावप्रमादावभिधित्सराहनि.[१८०] मज्जं विसय कसाया निद्दा विगहा य पंचमी भणिया। इअ पंचविहो एसो होइ पमाओ य अपमाओ॥ वृ. माद्यन्ति येन तत् मद्यं, यद्वशाद्गम्यागम्यवाच्यावाच्यादिविभागं जनो न जानाति, अत एवाह-"कार्याकार्ये न जानीते, वाच्यावाच्ये तथैव च। गम्यागम्ये च यन्मूढो, न पेयं मद्यमित्यतः॥" विषीदन्ति-धर्मं प्रतिनोत्सहन्त एतेष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषस्योपमा यान्तीति विषयाः, अत एवाविवेकिलोकाऽऽसेविता विवेकिलोकपरित्यक्ताश्च, तदुक्तम् "आपातमात्रमधुरा विपाककटवो विषोदमा विषयाः। अविवेकिजनाऽऽचरिता विवेकिजनवर्जिताः पापाः ।।" कष्यतेऽस्मिन् प्राणी पुनः पुनरावृत्तिभावमनुभवति कषयोपलकष्यमाणकनकवदिति कष:-संसारस्तस्मिन् आ-समन्तादयन्ते-गच्छन्त्येभिरसुमन्त इति कषायाः, यद्वा कषाया इव कषायाः, यथा हितुवरिकादिकषायकलुषिते वाससि मञ्जिष्ठादिरागः, श्लिष्यति चिरंचावतिष्ठते तथैतत्कलुषित आत्मनि कर्म सम्बध्यते चिरतरस्थिति कं च जायते, तदायत्तत्वात् तत्स्थितः, उक्तं हि शिवकर्मणा "जोगा पयडिपएसं ठितिअनुभागं कसायओ कुणइ" इत्यादि, एतदुष्टता च निरुक्त्यैव भाविता, 'निद्द'त्ति नितरां द्रान्ति-गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy