SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ उत्तराध्ययन- मूलसूत्रम् - १-३/१०२ जीवा सोहिमनुप्पत्ता, आययंति मनुस्सयं ॥ वृ. 'कर्मणां ' मनुजगतिविबन्धकानाम् 'तुः' पूर्वस्माद्विशेषद्योतकः 'पहाणाए 'त्ति प्रकृष्टं हानम्-अपगमः प्रहाणं तस्यापो - लाभः प्रहाणायः तस्मिन्, यद्वा सूत्रत्वात् प्रहाणौ प्रहान्या वा तंद्विबन्धकानन्तानुबन्ध्यादिकर्मसु प्रहीणेषु, कृतश्चिदीश्वरानुग्रहादेस्तदप्राप्तेः, अन्यथा हि तद्वैफल्यापत्तिः, एतेन-‘अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयो । ईश्वरप्रेरितो गच्छेत्, श्वभ्रं वा स्वर्गमेव वा ।।' इत्यपास्तं भवति, अथ कथं पुनस्तेषां प्रहाणिरित्याह- 'आनुपूर्व्या' क्रमेण 'न तु झगित्येव, तयापि 'कयाइ उ'त्ति तुशब्दस्यैवकारार्थत्वात्कदाचिदेव न सर्वदा, 'जीवा: ' प्राणिनः 'शुद्धीम्' क्लिष्टकर्म्मविगम्पत्मिकाम् अनु-तद्विघातिकर्मापगमस्य पश्चात्प्राप्ताः ‘आददते' स्वीकुर्वन्ति मनुष्यतां, पाठान्तरतश्च 'जायन्ते मणुस्सयं (सत्तयं) 'ति सुबव्यत्ययान्मनुष्यतायां तदैव तन्निर्वर्त्तकमनुजगत्यादिकर्मोदयादिति भावः, अनेन मनुजत्वविबन्धककर्मापगमस्य तथाविधकालादिसव्यपेक्षत्वेन दुरापतया मनुष्त्वदुर्लभत्वमुक्तमिति सूत्रार्थः ॥ कदाचिदेत - दवाप्तौ श्रुति: सुलभैव स्यादत आह मू. (१०३ ) मानुस्सं विग्गहं लद्धुं, सुती दुल्लहा । जं सोच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥ वृ. 'मानुस्सं 'ति सूत्रत्वान्मानुष्यकं मनुष्यसम्बन्धिनं विशेषेण गृह्यते आत्मना कर्म्मपरतन्त्रेणेति विग्रहस्तं मनुजगत्याद्युपलक्षितमौदारिकशरीरं 'लद्धुं 'ति अपेर्गम्यमानत्वात् लब्ध्वापि, 'श्रुतिः' आकर्णनं, कस्य ? - धारयति दुर्गतौ निपततो जीवानिति धर्म्म:, तथा च वाचक:"प्राग् लोकबिन्दुसारे सर्वाक्षरसन्निपातपरिपठितः । धृञ् धरणाऽर्थो धातुस्तदर्थयोगाद्भवति धर्म्मः ॥" दुर्गतिभयप्रपाते पतन्तमभयकरदुर्लभत्राणे । सम्यक् चरितो यस्माद्धारयति ततः स्मृतो धर्मः ॥२॥ तस्य - एवमन्वर्थनाम्नो धर्मस्य 'दुर्लभा' दुरापा प्रागुत्कालस्यादिहेतुतः, स च - मृद्वी शय्या प्रातरुत्थया पेया, भक्तं मध्ये पानकं चापराह्णे । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ " इत्यादिसुगतादिकल्पितोऽपि स्याद् अतस्तपोहायाह-यं धम्मं श्रुत्वा 'प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' अनशनादि द्वादशविधम् ' क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंसयन्ति' अहिंस्रताम्-अहिंसनशीलताम्, अनेन च प्रथमव्रतमुक्तम्, एतच्च शेषव्रतोपलक्षणम्, एतत्प्रधानात्वात्तेषाम्, एतद्द्वृत्तितुल्यानि हि शेषव्रतानि, एवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधस्यापि यतिधर्म्मस्याभिधानम्, इह च यद्यपि श्रुतेः शाब्दं प्राधान्यं तथापि तत्त्वतो धर्म एव प्रधानं, तस्या अपि तदर्थत्वादिति, स एव यच्छब्देन परामृश्यते, अथवा काक्वा नीयते- 'यद्' यस्मात् श्रुत्वा प्रतिपद्यन्ते तपः प्रभृति नाश्रुत्वा 'सुच्चा' जाणति कल्लाणं, सोच्चा जाणति पावगं' इत्याद्यागमात्, तत एवमतिमहार्थतया दुरायेयमिति सूत्रार्थः । श्रुत्यवाप्तावपि श्रद्धादुर्लभतामाह मू. ( १०४ ) आहच्च सवणं लद्धुं, सद्धा परमदुल्लहा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy