________________
अध्ययनं-३,[ नि. १७८ ] [ भा. २]
१५१ प्रतीतः, यदि वा शुद्रेण ब्राह्मण्यां जातश्चण्डालः, 'बोक्कसो' वर्णान्तरभेदः, तथा च वृद्धाः"बंभनेन सद्दीओ जातो निसाउत्ति वुच्चति, बंभनेन वेसीए जातो अंबट्ठोत्ति वुच्चति, तत्थ निसाएणं जो अंबट्टीतो जातो सो बुक्कसो भन्नति" इह च क्षत्रियग्रहणादुत्तमजातयः चण्डालग्रहणानीचजातयो बुक्कसग्रहणाच्च सङ्कीर्णजातय उपलक्षिताः, ततो' मानुषत्वादुद्धत्येति शेषः, 'कीट:' प्रतीत: 'पतङ्गः' शलभः, चः समुच्चये, ततस्तको वा कुन्थूपिपीलिक'त्ति, चशब्दस्य लुप्तनिर्दिष्टत्वात् कन्थुः पिपीलिका च, भवतीति सर्वत्र सम्बध्यते, शेषतिर्यग्भेदोपलक्षणं चैतदिति सूत्रार्थः ।। किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वेत्याहमू. (१००) . एवमावट्टजोणीसुं, पानिनो कम्मकिदिवसा।
ननिबिज्जति संसारे, सबढेसु व खत्तिया ।। मू. (१०१) कम्मसंगहि संमूढा, दुखिया बहुवेयणा।
अमानुसासु जोणीसु, विनिहम्मति पाणिणो॥ वृ.'एवम्' अमुनोक्तन्यायेन आवर्तनम् आवतः-परिवर्त्त इति योऽर्थो, युवन्ति-मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैरासुजन्तवो जुषन्ते सेवन्ते ता इति वा योनयः, आवर्तोपलक्षिता योनयः आवर्त्तयोनयः तास, 'प्राणिनः' जन्तवः, कर्मणा-उक्तरूपेण किल्बिषाःअधमाः कर्मकिल्बिषाः, प्राकृतत्वाद्वा पूर्वापरनिपातः किल्बिषाणि-क्लिष्टतया निकृष्टान्यशुभानुबन्धीनि कर्माणि येषां ते किल्बिषकर्माणः, 'ननिविद्यन्ते' कदैतद्विमुक्तिरिति नोद्विजन्ते, क्व या आवर्तयोनयः? इत्याह-'संसारे' भवे, केष्विव के न निर्विद्यन्ते? इत्याह-सर्वे चते अर्थ्यन्त इत्यार्थाश्च-मनोज्ञशब्दादयो धनकनकादयो वासर्वार्थास्तेष्विव 'क्षत्रियाः' राजानः, किमुक्तं भवति?-यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तर्षोऽभिवर्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्त्यां सत्यां कलंकलीभाक्मनुभवतामपि भवाभिनन्दिना प्राणिनामिति, कथमन्यथा न तत्प्रतिघातार्थमुद्यच्छयुरिति भावः । ___ पाठान्तरंवा-'सव्वट्ठइव खत्तिय'त्ति इवो भित्रक्रमः, ततः सर्वैः शयनादिभिरर्थः-प्रयोजनमस्येति सर्वार्थः क्षत्रियः, स चार्थाद्भष्टराज्यः तद्वत्, ततो यथाऽसौ न निर्विद्यते, अर्थात्सर्वार्थान् प्रार्थयमानः, तथैतेऽपि प्राणिनः सुखान्यभिलषन्तोऽनिविद्यमानश्च, कर्मभिः-ज्ञानावरणीयादिभिः, सङ्गाः-सम्बन्धाः कर्मसङ्गास्तै:, यद्वा कर्माणि-उक्तरूपाणि तत्तक्रियाविशेषात्मकानि वा, तथा सज्यन्तेऽमीषु जन्तव इति सङ्गाः-शब्दादयोऽभिष्वङ्गविषयाः, ततश्च कर्माणि च सङ्गाश्च कर्मसङ्गाः तैः सम् इति भृशं मूढाः-वैचित्त्यमुपागताः सम्मूढाः, 'दुःखम्' असातात्मकं जातमेषामिति दुखिताः, कदाचित्तन्मानसमेव स्यादत आह-'बहुवेदनाः' वह्वयो वेदना:शरीरव्यथा येषां ते तथा, मनुष्याणामिमामानुष्या न तथाऽमानुष्याः, तासु-नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु 'योनिषु' अभिहितरूपासु “विनिहन्यन्ते' विशेषेण निपात्यन्ते, अर्थात्कर्मभिः, कोऽर्थः ?-न तत उत्तारं लभन्ते 'प्राणिनः' जन्तवः, तदनेन सत्यप्यावर्ते निर्वेदाभावात् कर्मसंगसंमूढाः दुःखहेतुनरकादिगत्यनुत्तरणेन प्राणिनो मनुजत्वं न लभन्त इत्युक्तमिति सूत्रद्वयार्थः । कथं तहि तदवाप्तिः? इत्याह
मू. (१०२) कम्माणं तु पहाणाए, आनुपुब्बी कयाइ उ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org