________________
उत्तराध्ययन- मूलसूत्रम् - १-३/९७ कम्मा नानाविहा कट्टु, पुढो विस्संभिया पया ॥
वृ. 'सम्' इति समन्तात् आपन्नाः- प्राप्ताः समापन्ना णं इति वाक्यालङ्कारे, क्वेत्याह- संसारे, तत्रापि क्व ? - नाना इत्यनेकार्थः, गोत्रशब्दश्च नामपर्याय:, ततो नानागोत्रासु-अनेकाभिधानासु जायन्ते जन्तव आस्विति जातय: - क्षत्रियाद्या: तासु, अथवा जननानि जातयः ततो जातिषुक्षत्रियादिजन्मसु नाना - हीनमध्यमोत्तमभेदेनानेकं गोत्रं यासु तास्तथा तासु, अत्र हेतुमाहक्रियन्त इति कर्माणि - ज्ञानावरणीयादीनि 'नानाविधानि ' अनेकप्रकाराणि 'कृत्वा' निर्वर्त्य ‘पुढो’त्ति पृथग् भेदेन, किमुक्तं भवति ? - एकैकशः, 'विस्संभिय'त्ति विन्दोरलाक्षणिकत्वाद् विश्वं जगद् बिभ्रति- पूरयन्ति क्वचित्कदादिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः, उक्तं च"नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽपि ।
१५०
जम्मणमरणाबाहा जत्थ जिएहि न संपत्ता ।।"
इदमुक्तं भवति-अवाप्यापि मानुषत्वं स्वकृतविचित्रकर्मानुभावत: पृथग्जातिभागिन्य एव भवन्ति, का:-‘प्रजाः' जनसमूहरूपाः, तदनेन प्राप्तमानुषत्वानामपि कर्मवशाद्विविधगतिगमनं मनुषत्वदुर्लभत्वे हेतुरुक्तः, यद्वा संसारे कर्माणि नानाविधानि कृत्वा पृथगिति भिन्नासु नानागोत्रासु - अनेककुलदोयुट्पलक्षितासु जातिषु - देवाद्युत्पत्तिरूपासु समापन्नाः सम्प्राप्ता वर्त्तन्त इति गम्यते, नेति प्राग्वत्, 'विश्रम्भिताः' सञ्जानविश्रम्भाः सत्यः प्रक्रमात्कर्म्मस्वेव तद्विपाकदारुणत्वापरिज्ञानात् का: ?, प्रजायन्ते इति प्रजाः -- प्राणिन इति सम्बन्ध:, तदनेन प्राणिनां विविधदेवादिभवभवनं मूलत एव मनुजत्वदुर्लभत्वे कारणमुक्तामिति सूत्रार्थः ॥ एगया देवलोसु, नरसुऽवि एगया ।
मू. (९८ )
एगया आसुरे काये, आहाकम्मेहिं गच्छइ ॥
वृ. 'एकदा' इत्येकस्मिन् शुभकर्मानुभवकाले दीव्यन्तीति देवाः तेषां लोकाः - उत्पत्तिस्थानानि देवगत्यादिपुण्यप्रकृत्युदयविषयतथा लोक्यन्त इतिकृत्वा तेषु देवलोकेषु, नरान् कायन्ति-योग्यतयाऽऽह्वयन्तीति नरका: तेषु रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य 'चार्थत्वात्तेषु च, 'एकदा' अशुभानुभवकाले, तथा 'एकदा ' तथाविधभावनाभावितान्तःकरणावसरे, असुराणामयमासुरस्तम्- असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, बालतपः प्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थं देवलोकोपादानेऽपि पुनरासुरकायग्रहणम्, अथवा देवलोकशब्दस्य सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम्, इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम्, 'आहाकम्मेहि'ति आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः किमुक्तं ? - स्वयंविहितैरेव सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैः यथाकर्मभिर्वा-तत्तद्गुत्यनुरूपचेष्टितैः ‘गच्छति’ याति, इति सूत्रार्थः ॥ तथामू. (९९)
"
एगया खत्तिओ होइ, तओ चंडालबुक्कसो।
तओ कीडपयंगो य, तओ कुंथू पिवीलिया ||
वृ. 'एकदे 'ति मनुष्यजन्मानुरूपकर्म्मप्रकृत्युदयकाले 'खत्तिय'त्ति 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यस्त्रायत इति क्षत्रियो- राजा भवति, 'तत' इति तदनन्तरं तको वा प्राणी 'चण्डाल: '
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International