________________
अध्ययनं - ३, [ नि. १७८ ]
१५३
सोच्चा नेयाउयं मग्गं, बहवे परिभस्सइ ॥
वृ. 'आहच्च' इति कदाचित्त 'श्रवणम्' प्रक्रमाद्धर्माकर्णनम्, उपलक्षणत्वान्मनुष्यत्वं च लब्ध्वेति, अपि शब्दस्य गम्यमानत्वात् लब्ध्वापि अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद्धर्म्मविषयैव 'परमदुर्लभा' अतिशयदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-'श्रुत्वा' आकर्ण्य न्यायेन चरति-प्रवर्त्तते नैयायिकः, न्यायोपन्न इत्यर्थः, तं 'मार्गम्' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परिइति सर्वप्रकारं 'भस्सइ' त्ति भ्रश्यन्ति च्यवन्ते प्रक्रमान्नैयायिकमार्गादेव, यथा जमालिप्रभृतयो, यच्च प्राप्तमप्ययैति तच्चिन्तामणिवत् परमदुर्लभमेवेति भावः । इहैव केचिन्निह्नववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्त (प्यस्ति) इति सूत्रार्थः ॥ एतत्त्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाह
मू. (१०५ )
सुइं च लद्धुं च, वीरियं पुन दुल्लहं । बहवे रोयमाणाऽवि, नो य णं पडिवज्जइ ॥
वृ. श्रुतिं चशब्दान्मनुष्यत्वं च 'लद्धुं 'ति प्राग्वल्लब्ध्वापि, श्रद्धां च वीर्यं प्रक्रवात् संयमविषयं, पुनः शब्दस्य विशेषकत्वाद्विशेषेण दुर्लभं यतः बहवः नैक एव रोचमाना अपि न केवलं प्राप्तमनुष्यत्वाः शृण्वन्तो वेत्यपिशब्दार्थः, श्रद्दधाना अपि, नो चेति चशब्दस्यैवकारार्थत्वान्नैव 'ण'मिति वाक्यालङ्कारे अथवा 'णो य ण'न्ति सूत्रत्वान्नो एतं 'पडिवज्जति 'त्ति तत एव प्रतिपद्यन्ते चारित्रमोहनीयकर्म्मोदयतः, सत्यकि श्रेणिकादिवन्न कर्तुमभ्युपगच्छन्तीति सूत्रार्थः ॥
मू. ( १०६ ) मानुसत्तमि आयाओ, जो धम्मं सोच्च सद्दहे । तवस्सी वीरियं लद्धुं, सुंवडो निद्धुणे रयं ॥
स
वृ. 'मानुषत्वे' मनुजत्वे 'आयातः ' आगतः, विमुक्तं भवति ? - मानुषत्वं प्राप्तो य इत्यनिर्दिष्टस्वरूपो य एव कश्चिद्धर्मं श्रुत्वा ' सद्दहे' त्ति श्रद्धत्ते - रोचयते 'तपस्वी' निदानादिविरहितया प्रशस्यतपोऽन्वितः, कथं ? - 'वीर्यं' संयमोद्योगं लब्ध्या 'संवृत्तः ' स्थगितसमस्ता श्रवः, किमित्याह- 'निद्धुणे'त्ति निर्धुनोति - नितरामपनयति रज्यते अनेन स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यात्माऽन्यथात्वमापाद्यत इति रजः - कर्म्म बध्यमानकं बद्धं च, तदपनयनाच्च मुक्तिं प्राप्नोतीति भावः, उभयत्र लिप्स्यमानसिद्धौ चे ति लट्, इह च श्रद्धानेन सम्यक्त्वमुक्तं, तेन च ज्ञानमाक्षिप्तं, प्रदीपप्रकाशयोरिव युगपदुत्पादातत्ततयो:, तथा च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति न विरुध्यत इति सूत्रार्थः ॥
इत्थमामुष्मिकं मुक्तिफलमुक्तम्, इदानीमिहैव फलमाहमू. ( १०७ ) सोही उज्जुभूयस्स, धम्मो सुद्धस्स चिट्ठति । निव्वाणं परमं जाइ, घयसित्तेव पावए ॥
वृ. 'शुद्धिः' कषायकालुष्यापगमो भवतीति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य, तथा च 'धर्म्मः' क्षान्त्यादिः 'शुद्धस्य' शुद्धिप्राप्तस्य 'तिष्ठति' अविचलिततयाऽऽस्ते इति, अशुद्धस्य तु कदाचित्कषायोदयात्तद्विचलनमपि स्यादित्याशयः, , तदवस्थितौ च‘निर्वाणं' निर्वृतिर्निर्वाणं स्वास्थ्यमित्यर्थः ‘परमं' प्रकृष्टम् ' एगमासपरियाए समणे वंतरियाणं तेयल्लेसं वीईवयति' इत्याद्यागमेनोक्तं 'नैवास्ति राजराजस्य तत्सुख' मित्यादिना च वाचक
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International