________________
अध्ययन-३,[ नि. १७१] स्कन्दि, यथाऽऽदित्यः, क्रियावच्च सूच्यादि, इदमपि समानमत्रापि, यौ दूरदेशौ न तयोर्युगपदेकस्य सञ्चारो यथा हिमवद्विन्ध्यशिखरयोर्देवदत्तस्य, दूरदेशौ च शिरश्चरणगतत्वगिन्द्रियदेशावित्यनुमानेन मनसः क्रमसञ्चारसिद्धः, स्यादेतद्-आगमसिद्धमुपयोगयोगपद्यं, नच तद् युगपन्मनसः सञ्चारं विनेति न मनसः क्रमसञ्चारसाधकानुमानोत्थानम्, आगमसिद्धता चास्य वहुबहुविधादिग्राहित्वाभिधानेनावग्रहादीनामनेकग्रहणस्य तत्रोक्तत्वात्, तदभिधानाच्च युगपदनेकोपयोगताऽप्युक्तैवेति, नन्वत्रानेकग्रहणं किं सामान्यविशेषाणां ग्रहणमपेक्ष्य केवलविशेषाणां वा?, न तावदाद्यः पक्षो यतोऽनुवृत्तिव्यावृत्तिरूपेण विलक्षणत्वं सामान्यविशेषाणां, तथा चाह-'य एकत्र ग्रहणपरिणामः स नान्यत्रे'ति कथं युगपत्सामान्यविशेषग्रहणम् ?, अथ द्वितीयः पक्षः, उक्तं हि-"विशेषाणां व्यावृत्तिरूपेणाविलक्षणत्वात् युगपद्बहूनापि ग्रहणम्,' तन्न, विरुद्धत्वादस्य, तथाहि-विशेपाश्चाविलक्षणाश्चेति परस्परविरुद्धं वचः, अथ भिन्नेष्वपि विशेषेष्वभिन्न सामान्यमिति तद्रूपण तेषां ग्रहणम्, इदमस्मदिष्टमेव, उक्तं च
"उसिणेयं सीयेणं न विभागेनोवओगदुगमिटुं।
होज्जा समदुगगहणं सामन्नं वेयणामेत्तं ।।" न चैवमनेकग्रहणं युगपदनेकोपयोगित्वाविनाभावि येन तदभिधानात्तदप्युक्तं भवेत्, तथा च पूज्या:
___ "बहुबहुविहाइगहणे ननूवओगबहुआ सुएऽभिहिया।
तमणेगरगहणं चिय उवओगानेगया नत्थि॥" अथैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेनेति पक्षः, सोऽपि न, यस्माद्यद्यन्यत्रोपयुक्तमपि मनोऽन्यत्राप्युपयुज्यमानं निश्चीयेत तदा कञ्चित् व्याक्षिप्तमना: पुरः सन्निहितपदार्थान्तरेऽप्युप-. योगं लक्षयेत्, न चैवं, तदुक्तम्
"अन्नविणिउत्तमन्नं विनितोगं लहति जइ मनो तेनं ।
हत्थि ठियंपि पुरतो किमन्नचित्तो न लक्खेइ ? || (ततश्च स्थितमेतत्-) गवावहितचित्तस्य, नोपयोगो यथा गजे।।
शीतोपयुक्तचित्तस्य, नोपयोगस्तथाऽऽतपे॥ प्रयोगश्च-य एकत्रावहितचित्तो न सोऽन्यस्य ग्राहको, यथा गवाहितचित्तो हस्तिनः, शीतावहितचित्तश्च शीतवेदनाकाले जीवः, इत्थं संझ्युपयोगमाश्रित्योक्तं, सामान्येन तु
कारणं परिणाम्येकोपयुक्तनिजशक्तिकम्।
तदैवाशक्तमन्यस्मिन्नुपयुक्तं (योक्तुं) मृदादिवत् ।। प्रयोगश्च-यत्परिणामि कारणमेकत्रोपयुक्तशक्तिकं न तदैव तदन्यत्रोपयुज्यते, यथा घटोपयुक्ता मृत् शरावादिषु, शीतवेदनोपयुक्तश्च तत्काले जीवः, उक्तं च
"उवओगमतो जीवो उवउज्जइ जेण जंमि तं कालं। सो तम्मओवओगो होइ जहिंदोवओगम्मि।।१।। सो तदुव ओगमेत्तोवउत्तसत्तित्ति तस्समत्तो य। अत्यंतरोवओगं जाउ कहं केण वंसेण? ॥२॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org