________________
अध्ययनं - ३, [ नि. १६६ ]
१२९
गङ्गाचार्यात्, द्वे क्रिये वदन्ति द्वेक्रिया:, 'छलुग'त्ति पट्पदार्थप्रणयनादुल्कगोत्रत्वाच्च षडुलूकस्तस्मात् त्रिभी राशिभिर्दीव्यन्ति-जिगीषन्तीति त्रैराशिकास्तेषामुत्पत्तिः, 'स्थविराश्च' स्थिरीकरणकारिण: ‘गोट्ठामाहिल'त्ति गोष्ठमाहिला: 'स्पृष्टम्' कञ्चुकवत् छुप्तम् 'अबद्धम्' न क्षीरनीरवदन्योऽन्यानुगतं, कर्मेति गम्यते, 'परूपयन्ति' प्रज्ञापयन्ति, तत्कालापेक्षया लट्, बहुवचनं च पूज्यत्वात्, तच्च स्थविरत्वं च पूर्वपर्यायापेक्षया, अनेन च गोष्ठमाहिलादबद्धिकानामुत्पत्तिरित्युक्तं भवति इति गाथाद्वयार्थः ॥ यथा बहुरता जमालिप्रभवाः तथा चाह
नि. [१६७ ] जिट्ठा सुदंसण जमालि अनुज्ज सावत्थि तिदुगुज्जाणे । पंच सया य सहस्सं ढंकेण जमालि मुत्तूणं ॥
वृ. अक्षरार्थः सुगम:, नवरम्, 'अनुज्ज'त्ति अनवद्याङ्गी ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् तेणं' कालेणं तेणं समएणं कुंडपुरं नयरं, तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो सामस्सि मूले पव्वइओ पंचहि सएहिं समं, तस्स य भज्जा सामिणो धूया अनुज्जंगीनामा वीयं नामं पियरदंसणा, सावि तमणु पव्वतिया सहस्सपरिवारा, तहा भाणियव्वं जहा पन्नत्तीए, एक्कारस अंगा अहीया, सामिणा अणुन्नातो सावित्थं गतो पंचसय परिवारो, तत्थ यतिंदुगुज्जाणे कोट्ठगे चेतिते समोसढो, तत्थ से अंतपंतेहि रोगो उप्पण्णो, न तरइ बइट्ठतो अच्छिउं, ताहे सो समणे - मम सेज्जासंथारगं करेह, तेहिं काउमारद्धो, पुणो अधरो भणति -कतो ? कज्जति ?, ते भांति न कओ, अज्जवि कज्जति, ताहे तस्स चिंता जाता-जन्नं समणे भगवं० आइक्खति 'चलमाणे चलिए उदीरिज्जमाणे उदीरीए जाव निज्जरिज्जमाणे निज्जन्त्रे' तं च मिच्छा,
-
इमं पच्चक्खमेव दीसति- सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए, जम्हा णं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिज्जमाणेवि अनुदीरिए निज्जरिज्जमाणेवि अनिज्जिने, एवं संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, सद्दावित्ता एवं वयासी- जंणं समणे भगवं महावीरे एवमाइक्खइ-चलमाणे चलिए उदीरिए, जाव निज्जरिज्जमाणे निज्जरिए, तं णं मिच्छा, इमं पच्चक्खमेव दीसइ-सिज्जासंथारए कज्जमाणे अकडे, जाव तम्हा णं अनीज्जिने । तणं जमालिस एवमाइक्खमाणस्स अत्थेगतिया निग्गंथा एयमट्टं सद्दहंति, अत्थेगइया नो सद्दहंति, जे सद्दहंति ते णं जमालिं चेव अनगारं उवसंपज्जित्ता णं विहरंति, तत्र ये न श्रद्दधति ते एवमाहुः - भगवन् ! भवतोऽयमाशयः
यथा घटः पटो नैव, पटो वा न घटो यथा । क्रियमाणं कृतं नैव कृतं न क्रियमाणकम् ॥
प्रयोगश्च-यौ निश्चितभेदौ न तयोरैक्यं, यथा घटपटयोः, निश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतु:, तथाहि - कृतक्रियमाणे किमेकान्तेन निश्चितभेदे ? अथ कथञ्चिद् ?, यद्येकान्तेन तत्किं तदैक्ये सतोऽपि करणप्रसङ्गातः १ उत क्रियानुपरमप्राप्ते २ राहोस्वित् प्रथमादिवसमेष्वपि कार्योपलम्भप्रसक्ते ३ रथ क्रियावैफल्याऽऽपत्तितो ४ दीर्घक्रियाकालदर्शनानुपपत्तेर्वा ५ ?, तत्र न तावत्सतोऽपि करणप्रसङ्गत इति युक्तम्, असत्करणे हि खपुष्पादेरेव
28/9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org