________________
१२८
उत्तराध्ययन-मूलसूत्रम्-१-३/९६ उक्तस्वरूपम् 'अनाभोगात्' अज्ञानात्, तथा 'गुरवः' धर्माचार्यास्तेषां नियोगः-व्यापारणं गुरुनियोगस्तस्माद्वा, कश्चिद्धि सम्यग्दृष्टिविशेषतो जीवादिस्वरूपानवगमाद् गुरुप्रत्ययाच्चातत्त्वमपि तत्त्वमिति प्रतिपद्यते। तदेवं प्रथमगाथया मिथ्यात्वहेतुकत्वमश्रद्धानस्योक्तम्, द्वितीयगाथया पुनस्तदभावेऽप्यनाभोगगुरुनियोगहेतुकत्वं, तथा च मिथ्यात्वादितद्धेतुनां व्यापित्वादश्रद्धानभूयस्त्वेन श्रद्धानुदुर्लभतोक्ता भवतीति गाथाद्वयपरमार्थः ।। __ननु किमेवंविधा अपी केचिदत्यन्तमृजवः सम्भवेयुः? ये स्वयमागमानुसारिमतयोऽपि गुरूपदेशतोऽन्यथापि प्रतिपद्यरेन्, एवमेतत्, तथाहि-जमालिप्रभृतीनां निह्नवानाकशिष्यास्तद्भक्तियुक्ततया स्वयमागमानुसारिमतयोऽपि गुरुप्रत्ययाद्विपरीतमर्थं प्रतिपन्नाः, उक्तं हि"तए णं जमालिस्स अनगारस्स एवमाइक्खमानस्स एवं भासंतस्स एवं पन्नवेमानस्स एवं परूवेमानस्स अस्थि एगयया समणा निग्गंथा एयमटुं सद्दहंति पत्तियंति रोयंति" इत्यादि । के पुनरमि असद्भावं प्रतिपन्ना इत्याहनि.[१६४] बहुरयपएसअव्वत्तसमुच्छ दुगतिगअबद्धिगा चेव ।
एएसिं निग्गमणं वुच्छामि अहानुपुव्वीए। वृ. 'व्याख्यानतो विशेषप्रतिपत्तिः' इति न्यायात् बहुपु-क्रियानिष्पत्तिविषयसमयेषु रताः, कोऽर्थः?-बहुषु एव समयेषु क्रियानिष्पत्तिरित्यसद्भावं प्रतिपन्नाः १, 'पएसि'त्ति सूचकत्वादस्य् अन्त्यप्रदेशजीववादिनः अन्त्यएव प्रदेशो जीव इत्यभ्युपगताः २, अव्यक्ताः-'सत्या सत्यभामे'तिवत् अव्यक्तवादिनः, न अत्र व्यक्त्या यतिरयमयतिर्वा इत्यादिरूपतया वस्तु विज्ञातुं शक्यं, ततः सर्वमव्यक्तमेवेति प्रतिज्ञावन्तः ३, ‘समुच्छ'त्ति सूत्रत्वात् सामुच्छेदाः, तत्र समितिसामस्त्येन निरन्वयात् उदिति-ऊर्ध्वं क्षणादुपरि भवनात् छेदो-नाशः समुच्छेदस्तं विदन्ति तत्त्वधिया सामुच्छेदाः, ___ एषां द्वन्द्वे बहुरतप्रदेशाव्यक्तसामुच्छेदाः, द्विकं-क्रियाविषयमेकसमयमनुभूयमानमिह गृह्यते, तत्प्रतिज्ञातारोऽप्युपचारात् द्विकाः, एवं त्रिकं-जीवाजीवनोजीवराशिवयं तदभ्युपगन्ताषयमेषामस्तीति अबद्धिकाः, एषां द्वन्द्वे द्विकत्रिकाबद्धिकाः, चः समुच्चये एवेति पूरणे। अत्र कः कस्य शिष्य इत्याशङ्काऽपोहार्थमेतन्निर्गमाभिधित्सया सम्बन्धमाह-'एएसिं' एतेषामनन्तरमुपदर्शितानां, निर्गमनं-यस्य यत उत्पत्तिः तदात्मकं वक्ष्यामि' परिभाषिष्ये, 'अथे'त्यानन्तर्ये 'आनुपूर्व्या' क्रमेणेति गाथार्थः ॥ प्रतिज्ञातमेवाहनि.[ १६५] बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ।
अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ।। नि.[१६६] गंगाए दोकिरिया छलगा तेरासिआण उप्पत्ति।
थेरा य गुट्ठमाहिल पुट्ठमबद्धं परूविति ।।। वृ. 'बहुरताः' उक्तरूपाः, जमालेः प्रभवः-एतत्तीर्थापेक्षया प्रथमतः उपलब्धिरेषां, न पुनः सर्वथोत्पत्तिरेव, प्रागप्येवंविधाभिधायिसम्भवात्, ते अमी जमालिप्रभवाः, 'जीवपएसा य'त्ति प्रस्तावात्प्रदेश इत्यन्त्यप्रदेशो जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच्च व्यत्ययः, ते च तिष्यगुप्तात्, 'अव्यक्ताः' अव्यक्तवादिनः आषाढात्, सामुच्छेदा अश्वमित्रात्, 'गङ्गात्' इति Jain Education International For Private & Personal Use Only
www.jainelibrary.org