________________
१३०
उत्तराध्ययन-मूलसूत्रम्-१-३/९६ करणमापद्यत इति कथञ्चित्सत एव करणमस्याभिरम्युपगतं, न चाभ्युपगतार्थस्य प्रसञ्जनं युज्यते?, नापिक्रियानुपरमप्राप्तेः, यत इह किया किमेकविषया भिन्नविषया वा?, यद्येकविषया न कश्चिद्दोषः, तत्र हि यदि कृतं क्रियमाणमुच्यते, तत्र क्रियाऽऽवेशसमय एव कृतत्वाभिधानात्, उक्तं हि-"क्रियाकालनिष्ठाकालयोरैक्य"मिति, अथैवमपि कृतक्रियामाणयोरैक्ये कृतस्य सत्त्वात् सतोऽपि करणे तदवस्थः प्रसङ्गः, तद्सत्, पूर्वं हि लब्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात्, न तु क्रियासमकालसत्तावाप्तौ, अथ भिन्नविषया क्रिया तदा सिद्धसाधनं, प्रतिसमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमेन भिन्नविषयक्रियानुपरमस्यास्माकं सिद्धत्वात् २, अथ प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्तेरिति पक्षः, क्रियमाणस्य हि कृतत्वे प्रथमादिसमयेष्वपि सत्त्वादुपलम्भः प्रसज्यत इति, तदपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यन्ते एव, उक्तं च
"अन्नारम्भे अन्नं कइ दीसउ? जह घडो पडारम्भे।
सिवकादतो न कुम्भो कह दीसइ सो तदद्धाए।" घटगताभिलापतया च मूढः शिवकादिकरणेऽपि घटमहं करोमीति मन्यते, तथा चाह
"पइसमयकज्जकोडीनिरवेक्खो घडगयाभिलासोऽसि।
पइसमयकज्जकालं थूलमइ घडं मिलाएसि।" ३, नापि क्रियावैफल्याऽऽपत्तितो, यतः प्रागेव प्राप्तसत्ताकइय करणे क्रियवैफल्यं स्यात्, न तु क्रियमाणकृतत्वे, तत्र हि क्रियमाणं क्रियापेक्षमिति तस्याः साफल्यमेव, अनेकान्तवादिनां चकेनचिद्रूपेण प्राक् सत्त्वेऽपि रूपान्तरेण करणं न दोषाय ४, दीर्घक्रियाकालदर्शनानुपपत्तेरित्यपि न युक्तं, यतः शिवकाद्युत्तरोत्तरपरिणामविशेषविषय एव दीर्घक्रियाकालोपलम्भो न तु घटक्रियाविषयः, उक्तं हि
"पइसमउप्पन्नाणं परोप्परविलक्खनान सुबहूणं।
दीहो किरियाकालो जइ दीसइ किंथ कुंभस्स? ॥" अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे, तत्तीर्थकुदुक्तमेव, निश्चयव्यवहारानुगत्वात्, तद्वचसः, तत्र च निश्चयनयाऽऽश्रयेण कृतक्रियमाणयोरभेवदो, यदुक्तम्
"क्रियमाणं कृतं दग्धं, दह्यमानं स्थितं गतम्।
तिष्ठच्च गम्यमानं ,च निष्ठितत्वात् प्रतिक्षणम्॥" व्यवहारनयमतेन तु नानात्वमप्यनयोः, तथा च क्रियमाणं कृतमेव, कृतं तु स्याक्रियमाणं क्रियवेशसमये, क्रियोपरमे पुनरिक्रियमाणमिति उक्तं, च
तेणेह कज्जमाणं नियमेण कयं कयं तु भयनिज्जं।
किञ्चिदिह कज्जमाणं उवरयकिरियं व होज्जाहि ।। किञ्चि भवतो मति:-क्रियान्त्यसमय एवाभिमतकार्यभवनं, तत्रापि प्रथमसमयादारभ्य कार्यस्य कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा कथमकस्मादन्त्यसमये सा भवेद् ?, उक्तं च
"आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यटा पटे। अन्त्यतन्तुप्रवेशे च, नोतं स्यान्न पटोदयः॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org