________________
१२०
उत्तराध्ययन-मूलसूत्रम्-१-३/९६
अध्ययन-३ -चातुरंगियं - वृ. नमः श्रुतदेवतायै ।। उक्तं परिषहाध्ययनं, सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायभिसम्बन्धः-इहानन्तराध्ययने परीषहसहनमुक्तं, तच्च किमालम्बनमुररीकृत्य कर्त्तव्यमिति प्रश्नसम्भवे मानुपत्वादिचतुरङ्गदुर्लभत्वं तदालम्बनमनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च चतुरङ्गीयमिति द्विपदं नाम, अतश्चत्वारो निक्षेप्तव्याः अङ्गं च, न चैकं विना चत्वार इत्येक एव तावन्निक्षेपमहतीति मन्वान आह नियुक्तिकृत्नि.[१४२] नामंठवणादविए माउयपय संगहिक्कए चेव।
पज्जव भावे य तहा सत्तेए इक्कगा हुंति ।। वृ.इहैककशब्दस्यैकत्र निर्दिष्टस्यापि प्रक्रान्तत्वेन सर्वत्र सम्बन्धात्, नामैकक: स्थापनैककोद्रव्यैककः, उयपय'त्ति सुषो लोपान्मातृकापदैकक: संग्रहैकक: 'चः' समुच्चये, एवेति पूरणे, ‘पज्जव'त्ति प्राग्वत् पर्यवैकक: भावे' भावैककः, 'च:' पूर्ववत्, तथे'ति शेषानामपि निरुपचरितवृत्तितया तुल्यत्वाद, उपसंहर्तुमाह-'सप्तैते' अनन्तरोक्ता एकका भवन्ति, एतद्व्याख्या च दशवैकालिकनियुक्तिावेव नियुक्तिकृता कृतेत्यत्रोदासितं, स्थानाशून्यार्थं तु तदुक्तमेव किञ्चिदुच्यते-तत नामैकको यस्यैकक इति नाम, स्थापनैकक: पुस्तकादिन्यस्त एककाङ्कः, द्रव्यैकक: सचित्तादिस्त्रिधा-तत्र सचित्त एककः पुरुषादिरर्थः, अचित्तः फलकादिः, मिश्रो वस्त्रादिविभूषितः पुरुषादिरेव, मातृकापदैककः 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा' इति, एपां मातृकावत्सकलवांमयमूलतयाऽवस्थितानामन्यतरद्विशक्षितम्, अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादि, संग्रहैकक: येनैकनापि ध्वनिना बहवः संगृह्यन्ते, यथा जातिप्राधान्ये व्रीहिरिति, पर्यायैकेकः शिवकादिरेककः पर्यायो, भावैककः औदयिकादिभावानामन्यतमो भाव इति गाथार्थः । इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्कं निक्षेप्तुमाहनि.[१४३] नामं ठवणा दविए खित्ते काले य गणन भावे य।
निक्खेवो य चउण्हं गणनसंखाइ अहिगारो॥ वृ. तत्र नामस्थापने क्षुण्णे 'द्रव्ये' विचार्ये सचित्ताचित्तमिश्राणि द्रव्याणि चतुःसङ्घयताया विवक्षितानि, क्षेत्रे' चतुःसङ्ख्यापरिच्छिन्ना आकाशप्रदेशमा यत्र वा चत्वारो विचार्यन्ते, ‘काले च' चत्वारः समयावलिकादयः कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादिगणनान्त:पातिनो, भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकार:?, उच्यते, गणनासङ्ख्ययाऽधिकारः, किमुक्तं भवति?-गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानां गण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः ।। नि.[१४४] नामंगं ठवणंगं दव्वंगं चेव होइ भावंगं ।
एसो खलु मगस्सा निक्खेवो चउव्विहो होइ।। वृ.नामाङ्गंस्थापनाङ्गद्रव्याङ्गं चैव भवति भावाङ्गम्, एतत् खलु अङ्गस्सा' इति प्राकृतत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org