________________
१२१
अध्ययनं - ३, [ नि. १४४ ]
अङ्गस्य निक्षेपश्चतुर्विधो भवतीति गाथासमासार्थः ॥ अत्र च नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्याङ्गमभिधिसुराहनि. [ १४५ ]
गंधंगमोसहंगं मज्जाउज्जंसरीरजुद्धंगं । एत्तो इक्किक्कंपि य नेगविहं होइ नायव्वं ॥
वृ.‘गन्धाङ्गम्' औषधाङ्गम्, 'मज्जाउज्जंसररीजुद्धं गं' ति बिन्दोरलाक्षणिकत्वादङ्गशब्दस्य च प्रत्येकभिसम्बन्धात् मद्याङ्गमातोद्याङ्गं शरीराङ्गं युद्धाङ्गमिति षड्विधं द्रव्याङ्गम्, 'एत्तो' त्ति सुब्व्यत्ययादेषु-गन्धाङ्गादिषु मध्ये एकैकमपि च अनेकविधं भवति ज्ञातव्यमिति गाथाक्षरार्थः ।। भावार्थं तु विवक्षुराचार्यो 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गन्धाङ्गं प्रतिपादयन्नाहनि. [ १४६ ] जमदग्गिजडा हरेणुअ सबरनियंसणियं सपिण्णियं । रुक्खस्स य बाहितया मल्लियवासिय कोडी अग्घइ ॥
वृ. तत्र‘जमदग्निजटा’वालकः 'हरेणुका' प्रियंगुः 'शबरनिवसनकं' तमालपत्रं, 'सपिन्नियं'ति पिन्नि - पिन्निका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निकं, वृक्ष्यस्य च बाह्या त्वक् चातुर्जातकाङ्गं प्रतीतैव 'मल्लियवासियं 'ति मल्लिका जातिस्तद्वासितमनन्तरोक्तद्रव्यजातं, चूर्णीकृतमिति गम्यते, कोटिम् अर्हति, कोटिमूल्यार्हं भवति, महार्घतोपलक्षणं चैतत् ॥ ओसीरहरिबेराणं पलं पलं भद्ददारुणो करिसो ।
नि. [ १४७ ]
सयपुप्फाणं भागो भागो य तमालपत्तस्स ॥
वृ. तथा 'ओसीरं' प्रसिद्धं, 'ड्रीवेरो' वालकः, पलं पलमनयो:, तथा 'भद्रदारो:' देवदारोः कर्ष:, 'सयपुप्फाणं' ति वचनव्यत्ययात् शतपुष्पाया भागो, भागश्च तमालपत्रस्य, भाग इह पलिकामात्रम् ॥
नि. [ १४८ ]
एयं न्हायं एयं विलेवनं एस चेव पडवासो । वासवदत्ताइ कओ उदयनमभिधारयंतीए ॥
वृ. अस्य माहात्म्यमाह - एतत् स्नानमेतद्विलेपनमेष चैव पटवासः 'वासवदत्तया ' चण्डप्रद्योत दुहित्रा 'कृतो' विहितः 'उदयनं' वीणावत्सराजम् 'अभिधारयन्त्या' चेतसि वहन्त्या, अनेन परचित्ताक्षेपकत्वमस्य माहात्म्यमुक्तमिति सूत्रार्थः ॥ औषधाङ्गमाहदुत्रिय रयणी माहिंदफलं च तिन्नि य समूसणंगाई ।
नि. [१४९ ]
नि. [१५० ]
सरसं च कणयमूलं एसा उदगट्ठमा गुलिआ ॥ एसा उ हरइ कंडुं तिमिरं अवहेडयं सिरोरागं । तेइज्जगचाउत्थिग मूसगसप्पावरद्धं च ॥
वृ. 'द्वे रजन्यौ' पिण्डदारुहरिद्रे माहेन्द्रफलं च' इन्द्रयेवाः, त्रीणि च समूषणं- त्रिकटुकं तस्याङ्गानिसुण्ठीपिप्लीमरिचद्रव्याणि, 'सरसं च' आईं 'कनकमूलं' बिल्वमूलमेषा 'उदकाष्टमे 'त्युदकमष्टमं यस्यां सा तथा, 'गुटिका' वटिका, अस्याः फलमाह एषा तु हन्ति कण्डुं तिमिरम् 'अवहेडय'न्ति अर्द्धशिरोरोगं समस्तशिरोव्यथं, 'तेइज्जगचाउत्थिग 'त्ति सुब्लोपे तात्तीयीकचातुर्थिकौ, रूढ्य ज्वरौ, 'मूषकसपपराद्धम्' उन्दरादिदष्टं, चः समुच्चय इति गाथाद्वयार्थः ॥ मद्याङ्गमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org