SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मूलं- ३३२ प्रत्यूषस्येवागच्छन्ति । एवं ते प्रत्यूषसि तस्माद् ग्रामात्प्रवृत्ताः साधुभोजन-काले प्राप्ताः साधर्मिकसमीपं निषेधिकां कृत्वा प्रविशन्ति । ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्त्तव्यमित्यत आह- 'पक्खित्तं मातृणंति प्रक्षिप्त - आस्यगतं मुखे प्रक्षिप्तं कवलं मुक्त्वा 'निक्खिवमुक्खित्तं ' ति यदूत्क्षिप्तं भाजनगतं तत् 'निक्षिपन्ति' मुञ्चन्ति नैषेधिकीश्रवणानन्तरमेव, ततस्ते प्राघूर्णकाः 'ओघेणं' ति सङ्क्षेपेण आलोचनां प्रयच्छन्ति । ततो भुञ्जते मण्डल्या, सा चेयम I मू. (३३३) अप्पा मूलगुणेसुं विराधना अप्प उत्तरगुणेसुं । अप्पा पासत्थाइसु दानग्गहसंपओगोहा ॥ वृ. अल्पा मूलगुणेषु, एतदुक्तं भवति - मूलगुणविषया न काचिद्विराधना, अल्पा उत्तरगुणविषया विराधना, अल्पापार्श्वस्थादिषु दानग्रहणसेवाविराधना संपओगो' त्तितैरव पार्श्वस्थादिभिः संप्रयोगे-संपर्क. एतदुक्तंभवति-नपार्श्वस्थादिभिः सह संप्रयोग आसीत् । 'ओघ' त्तिगयं ओघतः' सङ्गेपत आलोचनादीयते. दत्त्वा आलोचनां यदि तु अभुक्तास्ततो भुञ्जते । अथ भुक्तास्तं साधवस्तत इदं भणन्तिभुज भुत्ता अम्हे जो वा इच्छे अभुत्त सह भोज्जं । मू. (३३४) सव्वं च तेसि दारं अन्नं गण्हति वत्थव्वा ॥ वृ. भुञ्जीत यूयं भुक्तवयं, 'यो वा इच्छे' त्ति यो वा साधुर्भोक्तु मिच्छति ततः 'अभुत्त सह भोज' ति तेनाभुक्ते सहभोज्यंकुर्वन्ति । एवं यदितेषामात्मनश्चपूर्वानीतंभक्तं पर्याप्यतेततः साध्वेव अथनपर्याप्यते ततः सर्व' तेभ्यः' प्राघूर्णकभ्यो दत्त्वा भक्त मन्यदृगृह्णन्ति पर्यटन्ति वास्तव्यभिक्षवः । एवमानीय कति दिनानि भक्तं प्राघूर्णकभ्यो दीयते इत्यत आहमू. (३३५) तिन्नि दिने पाहुन्नं सव्वेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे वत्थव्वा बाहि हिंडंति ॥ वृ. त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां कर्त्तव्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिर्ग्रामे हिण्डन्ति । अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति ततः किं कर्त्तव्यमित्यत आहमू. (३३६) संघाडगसंजोगो आगंतुगभद्दएयरे बाहिं । गंगा व बाहिं वत्पव्वगभहए हिंडे | ८५ वृ. सङ्घाटकसंयोगः क्रियते, एतदुक्तं भवति - एको वास्तव्य एकश्च प्राघूर्णकः, ततचैवं सङ्ग्राटक-योगं कृत्वा भिक्षामटन्ति। ‘आगंतुगभद्दएयरे' त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्ततः 'इयर' त्ति वास्तव्या 'बाहित बहिर्ग्रामे हिण्डन्ति, आगन्युका वा बहिग्राम हिण्डन्ति वास्तव्यभद्रके सति ग्रामे । उक्तं साधर्मिकद्वारम. इदानीं वसतिद्वारं प्रतिपादयन्नाह Jain Education International मू. (३३७) वित्थिन्ना खुड्डुलिआ पमाणजुत्ता यतिविह वसहीओ । पढमइयासठाणे तत्थ य दोसा हमे होंति ॥ वृ. विस्तीर्णा क्षुल्लिका प्रमाणयुक्त वा त्रिविधा वसतिः पढमवितियासु ठाणे' त्तियदा प्रथमायां वसती स्थानं भवति विस्तीर्णायामित्यर्थः, द्वितीया क्षुल्लिका तस्या वसतौ वा यदा भवति तदा तत्र तयोर्वसत्योः 'एते' वक्ष्यमाणका दोषा भवन्ति मू. (३३८) खरकम्मिअवाणियगा कप्पडिअसरक्खगा य वंठाय । For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy