________________
ओघनियुक्तिः मूलसूत्र
बिहरमाणका उच्यन्ते, अत आह- “ विहरंतावि अदुविहा' विहरमाणका द्विप्रकारा, गच्छगता निग्गया चेव, एतदेव व्याख्यानयन्नाहमू. (१९७)
६२
पत्तयेबुद्ध जिनकप्पिया य पडिमासु चेव विहरंता । आयरिअथेरवसमा भिक्खू खुड्डा य गच्छामि ॥
वृ. प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाश्च- 'मासाई संतता' इत्येवमादि एते गच्छनिर्गता विहरमाणकाः । इदानीं गच्छप्रविष्टा उच्यन्ते- 'आयरिअ' आचार्य:- प्रसिद्धः स्थविरो यः सीदन्तं ज्ञानादौ स्थिरीकरोति, वृषभौ - वैयावृत्त्यकरणसमर्थः भिक्षवः- एतद्व्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः, ‘एते गच्छागता-गच्छनिर्गताश्च' इत्थमुपन्यासः प्राक् कृतः, तस्कमाजिन्नकल्पिकादयो गच्छनिर्गता ★ आदी व्याख्याताः ? उच्यते, जिनकल्पिकादीनां प्राधान्यख्यापनार्थम्, आह- प्रथममेव कस्मादित्थं नोपन्यासः कृतः ?, उच्यते, तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आह-प्रत्येकबुद्धा न गच्छनिर्गताः, न, तेषामपि जन्मान्तरे तन्निर्गत्वसद्भावात्. यतस्तेषां नव पूर्वाणि पूर्वा-धीतानि विद्यन्ते ।
इदानीमवधावतः प्रतिपादयन्नाह - मू. (१९८)
ओहावंता दुविहा लिंगविहारे य होंति नायव्वा । लिंगेनऽगारवासं नियया ओहावण विहारे ||
वृ. "अवधावन्तः प्रव्रज्यादेरपसर्पन्तः 'द्विविधाः' द्विप्रकाराः 'लिंगविहारे य'त्ति लिङ्गादवधावन्तेअवसर्पन्तिगृहस्थतांप्रतिपद्यन्त इत्यर्थः, 'विहारेय'त्तिउद्यतविहाराद्येऽवधावन्ति-अपसर्पन्तिपार्श्वस्थादयो भवन्ति, एवमेते विज्ञेया भवन्त्य वधावमानाः । एतदेव व्याख्यानयन्नाह - "लिंगेनऽगारवास' लिङ्गेनावधावन् गृहवासं प्रतिपद्यते, 'नितिया ओहावण विहार' विहारादवधावन्नित्यादिषु वासं करोति । इदानींमाहिण्डकान् प्रतिपादयन्नाह -
मू. (१९९)
उवएस अनुवएसा दुविहा आहिंडआ मुणेयव्वा । उवएसदेसदंसण थूभाई हुति नुवएसा ॥
वृ. तत्र एके उपदेशाहिण्डकाः अपरेऽनुपदेशाहिण्डकाः एवमेते द्विविधा आहिण्डका मुणितव्याः । तत्र 'उवएस'त्ति द्वारपरामर्शः 'देसदंसणि' त्ति देशदर्शनार्थ द्वादश वर्षाणि ये पर्यटन्ति सूत्रार्थो गृहीत्वा एते उपदेशाहिण्डकाः । अनुपदेशे त्वमी भवन्ति 'धूमादी होंतिऽनुवएसा' स्तूपादिगमनशी अनुपदेशाहिण्डकाः । उक्ता आहिण्डकाः द्वारम् । अधुना ये ते गच्छता विहरमाणक्रास्तेपामेव विधिं प्रतिपादयन्नाहमू. (२००) पुन्नमि मासकप्पे वासावासासु जयणसंकमणा ।
आमंतणा य भावे सुत्तत्थ न हायई जत्थ ॥
वृ. 'मासकल्पे' मासावस्थाने पूर्णे सति तथा 'वासावासासु'त्ति वर्षायां वासो वर्षावासः तस्मिन् वा यो वासकल्पस्तस्मिन् पूर्णे सति । पुनश्च यतनया-संक्रामणया क्षेत्रसंक्रान्तिः कर्त्तव्या । किं कृत्वा ? 'आमंतणा य'त्ति आमन्त्रणं आचार्यः शिष्यानामन्त्रयति-पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले, चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु क्षेत्रगमने वा, 'भावे त्ति आगतेषु क्षेत्रप्रत्युपेक्षकेषु भावं प्रतीक्षते, कस्य किं क्षेत्रं रोचते ?, तत्र सर्वेषामतंगृहीत्वायत्रसूत्रार्थहानिर्नभवति तत्रगमनंकरिष्यत्याचार्यः। इदानीमेना-मेवगाथांव्याख्यानयति, अत्र यदुपन्यस्तं 'जयणसंकमण' त्ति तद् व्याख्यानयन्नाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org