________________
५६
ओघनियुक्तिः मूलसूत्रं वृ.प्रविशन्भिक्षार्थनिमित्तंपृच्छयतेगृहस्थैस्ततश्चनकथयति, अनेसणं'तेअनेषणांगहस्थेनक्रियमाणां निवारयति, नएरिसासमणा' नास्मदीयाएवंविधाः श्रमणाः, अस्माकंहितेनिमित्तंकथयन्तिअनेषणीयमपि गृह्यन्तिएवमभिधीयतेगृहस्थेन, 'कुक्कुड'त्तिकुक्कुडप्रायोऽयमिति।एवंतावद्भिक्षामटताप्रत्युपेक्षणआकृता, इदानीं दूरस्थ एवोपाश्रयप्रत्युपेक्षणां करोति-'खरिआदिट्ठाणं'ति खरिया-द्वयक्षरिका तत्समीपे स्थानंउपाश्रयः आदिशब्दाच्चरिकादिसमीपे वा। इयं तावद्वसतिवाह्या प्रत्युपेक्षणा कृता, इदानीमुपाश्रयाभ्यन्तरे द्रव्यप्रत्युपेक्षणां कुर्वन्नाहमू. (१७०) दव्वमि ठाणफलए सेज्जासंथारकायउच्चारे।
कंदप्पगीयविकहा वुग्गहिकिड्डा यभावंमि॥ वृ. द्रव्यमित्ति द्वारपरामर्शः, 'ठाणफए'त्ति स्थानं-अवस्थितिः, फलकानामवस्थितिं पश्यति, तानि हि वर्षाकाल एव गृह्यन्ते न रोपकाले, स तु प्रविष्टः रोपकालेऽपि फलकानि गृहीतानि पस्यति, 'सेना' इति शेरतेऽस्यामिति शय्या-आस्तरणं तदास्तृतमेवास्ते, संस्तारकाः-तृणमयाः, प्रकीर्यन्तेऽधस्तृणानि स्वपद्भिस्तं संस्सारकं पश्यति, 'काय'त्ति कायिकाभूमिं गृहस्थसंवद्वां पश्यति, 'उच्चार'त्ति गृहस्थैः सह पुरीषव्युत्सर्ग कुर्वन्ति, अथवा उच्चारं'त्ति श्लेष्मणः परिष्ठापनमङ्गणे कुर्वन्ति, एवं स साधुः प्रविशति । इयमभ्यन्तरा। द्रव्यप्रत्युपेक्षणा, इदानीमभ्यन्तरां भावप्रत्युपेक्षणां प्रतिपादयन्नाह-कन्दर्पगीत-विकथाः कुर्वन्ति, तथा वुग्गह'त्तिविग्रहःकलहस्तंकुर्वन्ति, 'किड्ड'त्तिपाशककपर्दकैःक्रीडन्ति, भावंमि, भावविषया प्रत्युपेक्षणा। उक्ताअभ्यन्तरा भावप्रत्युपेक्षणा, इदानीमेतद्दोषवर्जितेषु संयतेषु प्रविशति, एतदेवाहमू. (१७१) संविग्गेसु पवेसो संविग्गंऽमणुन्न बाहि किइकम्म।
ठवणफुलापुच्छणया एत्तोच्चिअगच्छ गविसणया। वृ. संविग्नाः मोक्षमिलाषिणस्तेषु प्रवेशः कर्त्तव्यः समनोज्ञेषु । अथ समनोज्ञा न सन्ति ततः 'संविग्गऽमुणुन्न'त्ति संविज्ञेषु अमनोज्ञेषु प्रवेशः, तत्र च 'बाहित्ति वहिरेव प्रविशनुपकरणमेकस्मिन्प्रदेशेमुश्चति, ततः 'कितिकम्मति तदुत्तरकालं वंदनं करोति, ततः 'ठवणकुलापुच्छणया' स्थापनाकुलानि पृच्छति भिक्षार्थ, ततस्ते कथयन्ति-अमुकत्रामुकानि। एत्तोचिअगच्छत्ति अस्या एव भिक्षाटनभूमेर्गमिष्यामि, इत्येवं ब्रवीति। 'गवेसणय'त्ति तं तस्माद्भामादेर्निर्गतं न निर्गतमिति वा वं गवेषणं कुर्वन्ति।
उक्तं साधर्मिकद्वारम्. इदानीं वसतिद्वारमभिधीयते. स च साधुर्गच्छन अस्तमनसमये वसतिं निरूपयति, सा च एषु स्थानेषु निरूपणीयामू. (१७२) संविग्गसंनिभद्दग सुन्ने निइयाह मोत्तुऽहाच्छंदे।
वच्चंतस्सेतेसुंवसहीए मग्गणा होइ॥ वृ. 'संविग्गेसु वसतिमग्गमा होइ' संविनेषु वसतिमार्गणा कर्त्तव्या, सी-श्राद्धः भद्रकःसंविनमावितस्तस्मिन्वावसतिमार्गणाकर्त्तव्या,तदभावेशून्यगृहादौवसतिमार्गणाकर्त्तव्या, नितियादित्ति नित्यवासादिषु,आदिशब्दात्पार्श्वस्थादयस्त्रयोगृह्यन्ते,तेषुवसतिमार्गणंकर्त्तव्यं, "मोत्तुऽहाच्छंदे'त्तिमुक्त्वा यथाच्छन्दान्स्वच्छन्दानित्यर्थः, तत्रवसतिर्नमृग्यते. व्रजतःसाधोरे-तेष्वनन्तरोदितेषुवसतेार्गणा-अन्वेपणं कर्त्तव्यम्। इयं द्वारगाथा वर्तते । इदानीमेतामेव गाथां प्रतिपदं व्याख्यानयन्नाह. मू. (१७३) वसही समणुन्नेसुं निइयादमणुन्न निवेए।
संनिगिहि इत्थिरहिए सहिए वीसुघरकुडीए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org