________________
५४
आंघनिर्युक्तिः मूलसूत्र
मू. (१६२)
अपहुप्पंते काले तं चेव दुगाउयं नइक्कामे । गोमुत्तिअदड्डाइसु भुंजइ अहवा पएसेसुं ॥
[ भा. ६४]
वृ. अथ तस्य भिक्षोर्गच्छतो योऽसावभिप्रेतो ग्रामः स क्रोशत्रये संजातः, तत्र च यदि कालः पर्याप्यते ततस्तद्भक्तं पूर्वगृहीतं परित्यज्यान्यद्भह्णाति, अथास्तमयकाल आसन्नस्ततः 'तं चेव' त्ति तदेव पूर्वगृहीतं भक्तं क्षेत्रातिक्रान्तमपि भुङ्क्ते, 'दुगाउअं नइक्कामे 'त्ति यदा तु कालः पर्याप्यते तदा तत्पूर्वगृहीतं भक्तं द्विगव्यूतात्परतो नातिक्रामयति-न नयति, गव्यूतद्वय एव तत्परित्यज्य याति, तत्र च गतः काले पर्याप्यमाणेऽ ऽन्यद् ग्रहीष्यतीति यदा पुनस्तस्य साधोर्व्रजतः क्रोशद्वयव्यवस्थितग्रामस्यारत आदित्योऽस्तमुपयातिनचान्तरालेस्थण्डिलमस्ति तदा 'गोमुत्तिगदड्डादिसुभुंसे' गोमूत्रदग्धेषु देशेषुभुञ्जीत, आदिशब्दात्सूकरोत्कीर्णभूप्रदेशादौ भुङ्क्त इति, 'अहवा पएसेसु 'त्ति यदि गोमूत्रदग्धादिस्थानं न भवति ततो धर्माधर्माकाशास्तिकायकल्पनां तस्मिन् स्थाने कृत्वा भुङ्क्ते, एतदुक्तं भवतिधर्माधर्माकाशास्तिकायैस्तिरोहितायां भुवि ऊर्वव्यवस्थितः, ततश्चानया यतनया सशूकता दर्शिता भवति । उक्तं सञ्जिद्वारम्, इदानीं साधर्मिकद्वारप्रतिपादनायाहमू. (१६३)
दिट्ठमदिट्ठा दुविहा नायगुणा चेव हुंति अन्नाया ।
अद्दिट्टावि अ दुविहा सुअमसुअ पसत्थमपसत्था ।
वृ. साधर्मिकाद्विविद्याः- दृष्टा अदृष्टाश्र, 'नायगुणातहयचेव अन्नाया' येतेदृष्टाः साध-र्मिकास्ते द्विविद्याःकदाचिज्ज्ञातगुणाभवन्तिकदाचिदज्ञातगुणाः, 'अदिट्ठावि अदुविहा' येऽप्यदृष्टाः साधर्मिकास्तेऽपिद्विविद्याः'सुय असुय'ति श्रुतगुणा अश्रुतगुणाश्च । 'पसत्थापसत्थ'त्ति ये ते ज्ञात- गुणास्ते द्विविद्याः प्रशस्तज्ञातगुणा अप्रशस्तज्ञातगुणाश्च, येऽपितेऽज्ञातगुणास्तेऽपिद्विविधाः प्रशस्ताज्ञातगुणा अप्रशस्ताज्ञातगुणाश्चेति, येऽपि ते श्रुतगुणास्तेऽपि द्विविधाः- प्रशस्तश्रुतगुणा अप्रशस्तश्रुतगुणाश्च, येऽपि तेऽश्रुतगुणास्तेऽपि द्विविद्याःप्रशस्ताश्रुतगुणा अप्रशस्ताश्रुतगुणाश्च । आह-ये दृष्टास्ते कथमज्ञातगुणा भवन्तीत्यत आहदिट्ठा व समोसरणे न य नायगुणा हवेज्ज ते समणा ।
मू. (१६४)
अगुण सत्थ इयरे समप्पुनिअरे य सव्वेवि ॥
वृ. 'दृष्टाः' उपलब्धाः सामान्यतो झटितिक्क ? - 'समवसरणे' स्रात्रादौ, नच ज्ञातगुणास्ते भवेयुः श्रमणाः, 'सुयगुणपसत्थ इयरे' त्ति इतरे इति अदृष्टानां परामर्शः, ते अदृष्टाः सुयगुणेति श्रुतगुणा अपिसन्तः पसत्थत्तिप्रशस्तश्रुतगुणा गृह्यन्ते, तदनेन सुयगुन पसत्यत्ति भावितं, इयरेत्ति - इतरे इत्यदृष्टानां परामर्शः ते अदृष्टाः श्रुतगुणाइत्ययमनन्तरगाथोपन्यस्तभङ्गकः एकः सूचितइति 'समणुन्नियरेय सव्वेऽवि' सर्वेऽपि चैते श्रुतादिगुणभेदभिन्नाः साधवः समनोज्ञाः इयरे च- असमनोज्ञा इति च, साम्भो-गिका असाम्भोगिकाश्रेत्यर्थः । इदानीमेषां श्रमणानां सर्वेषां मध्ये ये शुद्धास्तेष्वेव संवसनं करोति नेतरेष्विति, अमुमेवार्थं प्रतिपादयन्नाहमू. (१६५) सुद्धा संवासो होइ असुद्वाण दुविह पडिलेहा । अब्भिंतर बाहिरिआ दुविहा दव्वे अभावे अ ॥
वृ. यदिशुद्धाः संवासशुद्धाः, के अभिधीयन्ते ?, प्रशस्तश्रुतगुणास्तथाप्रशस्तज्ञातगुणाच, ते श्वेवंविधेषु संवासं-संवसनं करोति । ‘होइ असुद्धाण दुविह पडिलेहा' भवत्यशुद्धानां द्विविधा प्रत्यु - पेक्षणा, तत्राशुद्धा अप्रशस्तश्रुतगुणास्तथाऽप्रशस्तज्ञातगुणा अशुद्धा अभिधीयन्ते, तद्वियं द्विविधं प्रत्युपेक्षणं भवति, कथम् ?‘अब्भिंतरवाहिरिआ’एका अभ्यन्तरप्रत्युपेक्षपाऽभ्यन्तरेत्यर्थः, अपरा बाह्यप्रत्युपेक्षणा, 'दुविहा दव्वे यभावे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International