SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मूलं.१५८ ___ मू. (१५८) अद्दिढे किं वेला तेसि निबंधमि दायणे खिंसा। ओहामिओ उ बडुओ वन्नो अपहाविओ तहिअं॥ भा. ६०] वृ. अदृष्टे सतीदं वक्तव्यं किं वेला वर्तते भिक्षाटनस्य?, अथैवमप्युक्तानां पत्रकदर्शन निर्बन्धः ततो 'दान'त्ति दर्शयति पत्रकं, दृष्टे च पत्रके सति 'खिंसति' ते सागारिकास्तं बटुकं जुगुप्सन्ते-धिक त्वामसमीक्षितभाषिणमिति।ततःकिंजातम? 'ओहामिओउबडुओ' अपभ्राजितोवटुकस्तिरस्कृतइत्यर्थ वर्णश्च-यशः प्रख्यापितं तत्रेति-तस्मिन् भोजनविधौ । 'सुन्न' इत्ययमवयवो व्याख्यातः, इदानीं वहिंसागार'त्तिअमुमवयवव्याख्यानयन्नाह, (मू. १५९) सुन्नघरासइ बाहिं देवकुलाईसुहोइ जयणा उ। तेगिच्छिधाउखोभो मरणं अनुकंपपडिअरणं॥ - [भा. ६१] वृ. शून्यगृहस्यासति-अभावे बाहिं देवकुलाईसु होति जयणाउ' ततो बहिर्देवकुलादौ व्रजति, तत्रापि देवकुलादौवनगह्वरादौइयमेवयतनाकर्त्तव्या वाहिसंसदलट्टीएदारदारघट्टण' इत्येवमादिसर्वंकर्त्तव्यम् । अथ कथं बहिः सागारिकसम्भवः ?, अत आह, 'तेगिच्छित्ति चिकित्सकः' वैद्यः स कदाचित्तस्य साधोभिक्षामटतः धातुखोभे'त्तिधातुवैषभ्यंदृष्टाइदंचिन्तयति-यद्यस्यामवस्थायामयंसाधुर्भक्षणंकरोति ततः 'मरणं'ति अवश्यमेव स्रियते, स वैद्यः 'अनुकंपत्ति अनुकम्पया पडियरणं ति साधोरनुमार्गेण गत्वा निरूपणं करोति, यद्ययमिदानीमेव भक्षयिष्यति ततो निवारयिष्यामि वैद्यक शास्त्रपरीक्षणं वा कृतं भवति, एवमसौ वैद्यस्तस्य साधोरनुमार्गेण गत्वा लीनस्तिष्ठति साधुरपि, मू. (१६०) इरियाइ पडिक्कतो परिगुणणं संधिआ भि का गुणिआ?। . अम्हं एसुवएसो धम्मकहा दुविहपडिवत्ती॥ [भा.६२] वृ. ईर्यापथिकाप्रतिक्रान्तः सन् ‘परिगुणण'त्ति कियन्मात्रकमपि स्वाध्यायं करोति, अस्मिंश्च प्रस्तावे साधुःसमधातुरेवसंजातः, ततश्चवैद्योऽपितंसाधुसमधातुंदृष्ट्वाइदंवक्ति - ‘संहिताभेकागुणिया'संहिताचरकसुश्रुतरूपाकागुणिता?-अधीता,तेनभवताऽऽगमनमात्रेणैवनभुङ्क्तं ।साधुरप्याह- 'अम्हएसुवएसो' अस्माकमयं सर्वज्ञोपदेशः, यदुत-स्वाध्यायं कृत्वा भुज्यत इति । 'धम्मकहा दुविहपडिवत्ती' ततश्चासौ साधुर्धर्मकथां करोति, पश्चात्तस्य वैद्यस्य 'दुविहपडिवत्ति'त्ति कदाचित्संयतो भवेत् कदाचिच्छ्रावक इति । इदानीं बहिर्देवकलादौ भानस्य विधिरुक्तः, यदा त पनर्देवकलाद्यपि सागारिकैप्तिं भवति तदाऽनुकूलमार्गव्यवस्थितं स्थण्डिलं प्रति प्रयातिमू. (१६१) थंडिल्लासइ चीरं निवायसंरक्खणाइपंचेव। सेसं जाथंडिल्लं असईएं अन्नगामंमि॥ [भा. ६३] वृ. 'थंडिल्ल'त्ति स्थण्डिले गत्वा भुङ्क्ते , 'असति'त्ति अथ स्थण्डिलं नास्ति क्षुधा च पीड्यते ततोऽस्थण्डिलएव चीर'न्तिचीरमास्तीर्यपादयोरधस्ततश्चभुक्ते,किमर्थं पुनस्तच्चीरमास्तीर्यते? अत आह-निपातसंरक्षणाय' परिशाटिनिपातसंरक्षणार्थ, तया हि परिशाठ्या निपतन्त्या पृथिवीकायादि विध्वस्यते इति । 'पंचेव'त्ति तत्र चीरोपरि अस्थण्डिलस्थः कियद्भक्षयति?,त्रीन् पञ्चवा कवलान् । 'सेसं जाथंडिल्लं' शेष-अपरंभक्तं तावन्नयतियावत्स्थण्डिलंप्राप्तम्। असईए'त्तिअपान्तरालेस्थण्डिलस्यासति 'अन्नगामंमि'त्ति अन्यभामं प्रयाति. तत्र चस्थण्डिले भुझ्त इति। इदानीं यदुक्तं 'कालदुवे'त्ति नियुक्ति कृता तद्भाष्यकृद् व्याख्यानयन्नाह. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy