________________
५२
ओघनियुक्तिः मूलसूत्रं मू. (१५४) आलोअणमालोवो अदिटुंमिवि तहेव आलावो।
किं उल्लावं न देसी ? अदिट्ठ निस्संकिअंभुंजे॥ . भा. ५६] व. 'आलोकनं निरूपणंतत् करोति, अथ निरूपिते (कश्चिदृष्टः) 'आलावो'त्ति, यदि कश्चिदृष्टस्तत आलपनंकरोति,किमिहभवानागतः?इति। 'अदिट्ठमिवितहेवआलावो'त्तिअदृष्टेऽपिसागारिकेतथैवालपनं करोति, किमिह भवानायातः इति । अथैवमप्युक्तो न कश्चित्तत्रोत्तरं ददाति तत इदमुच्यते- 'किमुल्लावं न देसीति ?,' तस्मादुल्लापं प्रतिवचनं प्रयच्छेति । अथैवमपि न कश्चित्त-त्रोपलब्धस्ततः 'अदिट्टे'त्ति सर्वथा सागारिकेऽनुपलब्धेसतिनिःशङ्कितंभुझ्त इति।अथएभिरप्यु-पायैर्नप्रकटीभूतःसागारिकःपश्चात्तुप्रकटीभूतो भुञ्जतः सतस्ततः, म. (१५५) दिट्ट असंभम पिंडो तुज्झवि य इमोत्ति साह वेउव्वी। सोवि अगारो दोच्चा नीइ पिसाउत्ति काऊणं॥
[भा. ५७] वृ. दृष्टे सागारिकेसति असंभम'त्ति असम्भ्रमो-नभयं कर्त्तव्यम्, असम्भ्रान्तेन चतेनसाधुना पिण्डो तुज्झवि अइमो'त्ति स्वाहा' भिक्षापिण्डं गृहीत्वा एवं करोति-अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तुज्झवि अइमोत्ति स्वाहा-तवाप्ययं पिण्डः स्वाहा वेउन्विति विकृतं शरीरं करोति पिशाचगृहीत इव, एवंविधं साधं दृष्टा सोऽप्यगारी 'दोच्चा' इति भयेन 'नीति' निर्गच्छति, 'मुनि (पिसा) ऊ त्ति कारुणं' पिशाचोऽयमितिकृत्वा । एवं तावदभ्यन्तर-स्थसागारिकदर्शन भुञानस्य विधिरक्तः, यदा तु पुनर्बहिर्व्यवस्थित एव एभिः स्थानान्तरं पश्यति तदा को विधिः? इत्यत आहमू. (१५६) तिब्वेण व मालेन व वाउपवेसेण असव सढयाए। गमनंच कहणआगमदूरभासे विही इणमो॥
[भा.५८] वृ.यदातुसागारिकोबहिर्व्यवस्थितएवसाधुंतीव्रण-छिद्रेणकुटिकापवडकेनकटकेनपश्यति, मालेण वत्ति माले-उपरितलव्यवस्थितो यदा कदाचिच्छठतया पश्यति, 'वाउपवेसण'त्ति, अथवा 'वायुप्रवेशेन' गवाक्षेण शठतया पश्यति, अथवेति विकल्पार्थः, एतेनान्येन वा प्रदेशेन शठतया' धूर्ततया पश्यति, दृष्ट्वाच गमनंच करोति स सागारिकः, 'कहणं'- ति गत्वा चान्येभ्यः कथयति-यदतागच्छत पश्यत पत्रके भुनानः साधुर्दृष्ट इति, तत्र ‘आगम'त्ति तेऽप्यागच्छन्ति, पश्यामः किमेतत्सत्यं न वेति, 'दूरब्भासे विही इणमो' दरादागच्छतां अभ्यासाद्वाऽऽगच्छतां 'विही इणमो' विधिः 'अयं वक्ष्यमाणलक्षणो भवति।
कश्चासौ विधिरित्यत आह. . मू. (१५७). . थोवंभुंजइ बहुअंविगिंचई पउमपत्तपरिगुणणं। - पत्तेसु कहिं भिक्खं दिट्ठमदिट्टे विभासा उ॥
[भा.५९] वृ.यदितावरेसागारिकास्ततःससाधुः थोवं/जति'स्तोकंभुङ्क्ते, बहुभक्तं विगिचति' त्यजति गर्तादौ-अल्पसागारिकं करोति धूलिना वा आच्छादयति, अथाभ्यास एव सागारिकास्ततः 'थोवं भुंज'त्यन्यथा व्याख्यायते-स्तोकं भुङ्क्ते यावन्मानं मुखस्यान्तस्तिष्ठति तावन्मात्रमेव भुङ्क्ते , शेष परित्यजतीतिप्राग्वत्, ‘पउमपत्त'त्ति पद्मपत्रसदृशं निर्लेपनं पात्रे करोति ‘परिगुणण'त्ति स्वाध्यायं कुर्वस्तिष्ठतीति । एवं च व्यवस्थितस्य साधोस्ते सागारिकाः प्राप्ताः, ते च प्राप्ताः सन्त इदं पृच्छन्ति-'कहिं भिक्खं तिक्कत्वया भिक्षा कृतेति। तत्र दिट्ठमदिटेविभासा उ’ दृष्टेऽदृष्टेच विभाषा' विक-ल्पना कार्या, यदि दृष्टो भिक्षामटन्तत इदं वक्ति -तत्रैव श्रावकादिगृहे भक्षयित्वा इहागत इति। अथ न दृष्टो भिक्षामटंस्ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org