________________
५०
आघनिर्युक्तिः मूलसूत्र
घृतादिक्षयं यातीति । इदानीय एव प्राग् व्यावर्णिता दोषास्तानेव कारणान्तरमुद्दिश्य गुणवत्तया स्थापयन्नाहजे चेव पडिच्छणदीहखद्वसुवणेसु वनिआ दोसा । ते चेव सपडिवक्खा होंति इहं कारणज्जाए ।
मू. (१४६)
वृ. यएवदोषा 'पडिच्छणे' तिप्रतिपालने 'दीहं' तिदीर्घायां भिक्षाचर्यायां' खद्ध' त्तिप्रचुरभक्षणे 'सुवण' त्ति स्वापे, एतेषु स्थानान्तरेषु ‘वर्णिताः ' कथिता ये दोषास्त एव सप्रतिपक्षाः - सविपर्ययाः गुणा इत्यर्थः, भवन्ति, ‘इह' अस्मिन्‘कारणजातेकारणमाश्रित्य । इदानीं यदुक्तं निर्युक्ति कृता- “पृच्छबाहिंअंतोपविसिअव्वं "ति, एतद्व्याख्यानयन् भाष्यकार आहमू. (१४७)
विहिपुच्छाए सन्नी सोउं पविसे न बाहि संचिक्खे ।
उग्गमदोसभरणं चोयगवयणं बहिं ठाउ ।।
[भा. ५०] वृ. 'विधिपृच्छया' पूर्वाभिहितया 'सञ्झिनं' श्रावकं श्रुत्वा ततः प्रविशेत्. क्व ? - श्रावकगृहे, न च बहिः संतिष्ठेत्, किं कारणम् ? - उदगमदोषभयात्, माभूत्तं साधुमुद्दिश्य कचिदाहारं कुर्याद असौ सञ्ज्ञी । एवमुक्ते सत्याह चोदकः, किं तद् ?, इत्याह- 'बहिं ठाउ' बहिरेवासौ साधुर्भिक्षावेलां प्रतिपालयतु, भा भूत् प्राघूर्णक इतिकृत्वा श्रावक आहारपाकं करिष्यतीति । एवमुक्ते सत्याचार्य आह
मू. (१४८)
सोच्चा दवणं वा बाहिठिअं अग्गमेगयर कुज्ना । अप्पत्तपविट्ठो पुण चोयग ! दद्धुं निवारेज्जा ।।
[भा. ५९ ] वृ. श्रुत्वा तं साधुं बहिर्वर्त्तिनमन्यस्मात्पुरुषादेः स्वयंवा दृष्ट्वा उद्गमादीनां दोषाणाकेमकतरं- अन्यतमं कुर्यात् । 'अप्पत्त'- त्ति अपयाप्तायां वेलायामेतच्छ्रावकः कुर्यात्, एष बहिस्तिष्ठतो दोषः, 'पविट्टो पुन चोयग ! दडुं निवारेज्जा' प्रविष्टः पुनरसौ साधुः सञ्ज्ञिकुलं हे चोयग ! 'दठ्ठे 'ति दृष्ट्वा उद्गमादिदोषं निवारयेत् । किञ्चमू. (१४९) • उग्गमदोसाईणं कहणा उप्पायणेसणाणं च ।
तत्थ उ नत्थी सुन्ने बाहिं सागार कालदुवे ॥
वृ. उद्गमदोषादीनां कथनं करोति उत्पादनादोषाणां एषणादोषाणां च कथनं करोति, ततश्च यदि शुद्धं भक्तं ततस्तत्रैव सञ्ज्ञिगृहेभोक्तव्यम्, अथतत्रनास्ति ततोऽन्यत्रगन्तव्यम् । एतदेवाह- 'तत्थउ' त्तितत्रैवश्रावकगृहेभुङ्क्ते, ‘नत्थि’त्तिअथ तत्र नास्ति भोजनस्थानंततः 'सुन्न' त्तिशून्यगृहे शून्यगृहेयाति, 'बाहिं' ति अथ शून्यगृहे सागारिकैर्भोक्तुं न शक्यते ततो बाह्यतो व्रजति अथ तत्रापि 'सागार' त्ति सागारिकाः ततः 'कालदुवे’त्ति कालद्वितयं ज्ञातव्यं, किं ?, स्वल्पो दिवस आस्ते आहो- श्वित् महान् ?, यदि महांस्ततो दूरमपि स्थण्डिले गत्वा समद्दिशति, अथ स्वल्पो दिवसस्ततोऽस्थण्डिल एव यतनया समुद्दिशतीति । इयं तावन्निर्युक्तिगाथा, एतामेव भाष्यकारः प्रतिपदं व्याख्यानयति, तत्र चोदकाक्षेपपरिहारद्वारेण प्रवेशविधिरुक्तः, इदानीं बहिस्तिष्ठतोऽधिकतरदोषप्रतिपादनायाह
मू. (१५० )
फेडेज्ज व सइ कालं संखडि घेत्तूण वा पए गच्छे ।
सुन्नघराइपलोअण चेइअ आलोयणाऽबाहं ।।
[भा. ५२] वृ. स हि तत्र बहिर्व्यवस्थितः किं कुर्यादत आह- 'फेडेज्ज व सइ कालं' अपनयेत् 'सति' त्ति विद्यमानं भिक्षाकालम्, एतदुक्तं भवति ग्रामे प्रहरमात्र एव भिक्षावेला भवति, तत्र च व्यवस्थितः साधुस्तां भिक्षावेलामपनयति, ‘संखडि' त्ति कदाचित्तत्रान्यस्मिन् दिवसे समडिरासीत्, तदुद्धरितं च पर्युषितभक्तं प्रत्यूपस्येव भक्षितं गृहस्थैरतोऽसौ साधुर्बहिर्व्यवस्थितस्तस्य भ्रष्ट इति, 'घेत्तूण वा पए गच्छे' त्ति गृही-त्वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International