________________
ओ नियुक्तिः मूलसूत्र
करोति, तत्र चत एव दोषाः "वोसिरणे छक्काया धरणं मरणं दवविरोहो" । उक्तं ग्रामद्वारम. अथसंखडिद्वारं. तत्राह-‘संखडिआइन्नगेलन्नं' तिसंखडी प्रकरणंतदर्थमुद्वर्त्तते, अप्राप्तां चवेलांप्रतिपालयति, तत्रच 'आइन्न' त्ि आकीर्ण-संबाधनं स्त्रीस्पर्शादिदोषाः, तथा 'खद्धरगेलण' त्ति खद्धं प्रभूतमुच्यते, ततश्च भूरिभक्षण मान्यं स्यात्. तएव च दोषाः “वासिरणे छक्काया धरणे मरणं दव- विरोहो" । उक्तं संखडिद्वारम. अथसञ्ज्ञिद्वारम्'सन्नि' त्ति सञ्जिनं श्रुत्वा उद्धर्त्तनं करोति, अप्राप्तां च वेलां प्रतिपालयति, तत्र न त एव दोषा वोसिरणादयः । उक्तं सञ्ज्ञिद्वारम्. इदानीं दानश्रावकद्वारं तत्रापि 'उब्वत्तणमप्पत्तं च पडिच्छे "त्ति पूर्ववत . ततश्वासी दानश्रावकः प्रभूतं घृत ददाति, तत्रापित एव दोषा वोसिरणादयः । उक्तं दानद्वारम्, अथ भद्रकद्वारं- 'भद्दग'त्ति कथित्स्वभावत एव साधुभद्रकः स्यात् तत्समीपगमनार्थमुद्वर्तनं करोति, अप्राप्तां च वेलां प्रतिपालयति, ततश्चासौ लड्डुकादिप्रदानं करोति त एव दोषाः । अथ महानिनादद्वारमाह- 'अप्पत्तमहानिनासु' त्ति महानिनादेषु - शब्दितषु कुलेषु प्रख्यातेषु कुलेषु उद्धर्त्तनं कृत्वा 'अप्पत्त' ति अप्राप्ता वेलां प्रतिपालयति तेषुच स्निग्धमन्नं लभ्यते एवं च तत्रापि त एव दोषाः “वोसिरणे छक्काया" इत्यादयः । उक्तं चशब्दाक्षिप्तं महानिनादकुलद्वारं, तथाऽनुकूलात्स्वमार्गाद(न)नुकूलेषु व्यवस्थितेषु व्रजादिषु अप्राप्तां वेलां भक्त प्रतिपालयतो गमनविघातदोष उक्तः, इदानीमनुकूलमार्गव्यवस्थितेषु व्रजादिषु भक्तार्थं प्रविष्टस्य यथा गमनविघातो भवति तथा प्रतिपादयन्नाह
मू. (१४०)
४८
पहुच्छिखीर सतरं घयाइ तक्कस्स गिण्हणे दीहं । गेहि विगिंचणिअभया निसट्टं सुवणे स परिहानी |
वृ. पडुच्छिक्षीरं- पारिहिट्टिक्षीरं तदन्विषन् शेषक्षीरं चागृण्हन् दीर्घा भिक्षाचर्यां करोति, तथा 'सतरं' ति सतरंदधि अन्वेदीघां तां करोति, तक्रस्यवाग्रहणेदीर्घां तां करोति । इदानीं तत्क्षीरादिप्रचुरं लब्धं सत् 'गोहि' त्ति गृद्धः सन् प्रचुरं भक्षयति यद्वा 'विगिंचणिअभया निसट्टं' ति विगिञ्चनं परित्यागस्तद्भयान्निसट्टं प्रचुरं भक्षयति ततश्चप्रचुरभक्षणे 'सुयणे अपरिहाणी' प्रदोषएव स्वाध्यायमकृत्वैव स्वपिति, सुप्तस्य च 'परिहाणी' सूत्रार्थविस्मरणमित्यर्थः, चशब्दात् 'अह जग्गति गेलन्नं” इत्येतद्व्रक्ष्यति तृतीयगाथायाम् । एवं तावदनुकूलमार्गव्यवस्थिते व्रजे भक्तार्थप्रविशतो गमनप्रतिघात उक्तः, , इदानीमनुकूलमार्गव्यवस्थितेग्रामे भक्तार्थं प्रविष्टस्य यथा गमनविघातो भवति तथाह
मू. (१४१)
गामे परितलिअगमाइमग्गणे संखडी छणे विरूवा । सन्नी दाने भद्दे जेमणविगई गहण दीहं ॥
वृ. 'ग्राम' इति द्वारपरामर्शः, ग्रामे प्रविष्टः सन् परितलितादिमार्गणं करोति, परितलितं- सुकुमालिकादि उच्यते, तदन्विषन दीर्घा भिक्षाचर्यां करोति । उक्त मनुकूलग्रामद्वारम, इदानीमनुकूलसंखडीद्वारमुच्यते'संखडी छण विख्व' त्ति संखडीप्रकरणं, सा च 'क्षणे' उत्सवे विविधरूपा भवति एतदुक्तं भवति गृहे गृहे घृतपूरादि लभ्यते तदर्थं च दीर्घा भिक्षाचर्यां करोति । उक्त मनुकूलसंग्खडीद्वारं, इदानीमनुकूलव्यवस्थितसञ्ज्ञिद्वारमुच्यते- 'सन्नि'त्ति सञ्ज्ञिनः - श्रावका उच्यन्ते तेषु मृष्टान्नार्थी दीर्घा भिक्षाचर्यां करोति । उक्त मनुकूलसञ्जिद्वारम, इदानीमनुकूलदानश्राद्धकद्वारमुच्यते- 'दान' त्ति दानश्राद्धका उच्यन्ते तेष्वनुकूलपथव्यवस्थितेषु प्रविष्टो मृष्टभोजनार्थीीं दीर्घा भिक्षाचर्यां करोति । उक्तं दानश्राद्धकारम, इदानीं भद्रकद्वारमुच्यते- 'भद्दे' त्ति अनुकूलपथव्यवस्थितेषु भद्रकेषु 'जेमण- विगईगहण दीह' त्ति मृष्टभोजनविकृतिग्रहणार्थं, दीर्घा भिक्षाचर्यां करोतीति सर्वत्र योज्यमिति । तत्र प्राणिदमुक्तं प्रचुरभक्षणात्स्वपतः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org