________________
मूल- १३४
-
यस्मादेतदेवं तस्मात्कुर्याद् ग्लानस्य प्रतिजागरणं साधुः कियन्तं कालमत आह- पढमालिअ जाव गमनं 'ति यावत्प्रथमालिकामानेतुं समर्थो जातः यावच्च बहिर्गमनक्षमा जात इति ।। तथा जड़ तापासत्यासन्नकुसील निण्हवगाणंपि देसिअं करणं । चरणकरणालसाणं सब्भावपरंमुहाणं च ॥
मू. (१३५)
[ भा. ४८ ] वृ. यदि तावत्पार्श्वस्थावसन्नकुशीलास्तेषां तथा सद्भावः- तत्त्वं सम्यग्दर्शनं ततः पराङमुखाः, केते ? निह्नावकास्तेषाम्, अथवा ‘चरणकरणालसाणं' अत एव सद्भावपराङमुखानां केषां ? - सर्वेषामेव पार्श्वस्थावसन्नकुसीलनिह्नवकानां यदि तावत्कर्त्तव्यं प्रतिपादितं तत इतरषां नितरामेव । एतदेवाहकिं पुन जयणाकरणुज्जयाण दंतिंदिआण गुत्ताणं ? । संविग्गविहारीणं सव्वपयत्तेण कायव्वं ॥
मू. (१३६)
४७
[भा. ४९ ] वृ. किं पुनः किमुत यतनाकरणं उद्यताः- उद्यक्त स्तेिषां दान्तेन्द्रियाणां गुप्तानां मनोवाक्काय गुप्तिभिः संविग्रविहारिणः- उद्यतविहारिणां भाक्षाभिलाषिणइत्यर्थः तेषां सर्वप्रयत्ननकार्यम् ? । किंपुनः कारणमेतावन्ति विशेषणानि क्रियन्ते? एकस्यैव युज्यमानत्वात्तत्र, तथाहि यद्येतावदुच्यते यतना- करणोद्यतानामिति, ततः कदाचिन्निह्नवका अपि यतनाकरणोद्यताः स्युः ? अत आह- दान्तेन्द्रियाणां गुप्तानां चेनि, तेऽपि च दान्तेन्द्रिया गुप्ताः कदाचिल्लाभादिनिमित्तं भवेयुरत उक्तं संविग्रविहारिणो ये, तेषामवश्यं कर्त्तव्यमिति ।
उक्तं ग्लानद्वारम्, अथ सञ्ज्ञिद्वारं संबन्धयन्नाहमू. (१३७)
एवं गेलन्नट्टा वाघाओ अह इनानि भिक्खट्टा । asयग्गमे संखडि सन्नी दाने अभद्दे अ॥
वृ. एवंग्लानार्थ ‘व्याघातो' गमनप्रतिबन्धस्तस्य स्यात्. 'अथें त्यानन्तर्य. इदानीभिक्षार्थंगमन-विघातो न कार्य इत्यध्याहारः, अथवाऽन्यथा एवं तावद् ग्लानार्थं गमनव्याघात उक्तः इदानी भिक्षार्थं था स्यात्तथोपदर्श्यते- 'वइयग्गाम संखडिसन्नी दानय भद्दे 'त्ति, व्रजइति- गोकुलं तस्मिन् प्रविष्टस्य गमनविघातः स्यात्, ग्रामः-प्रसिद्धः संखडीप्रकरणं सञ्ज्ञी - श्रावकः 'दाने' त्ति दान- श्राद्धकः 'भद्दे अत्ति भद्रकः साधूनां, चशब्दान्महानिनादकुलानि । एतेषु प्रतिवध्यमानस्य यथा गमनविघातस्तथाऽऽह
मू. (१३८)
उव्वत्तणमप्पत्तं च पडिच्छे खीरगहण पहगमने ।
वोसरणे छक्काया धरणे मरणं दवविरोहो ||
वृ. सहिअनुकूलं पत्थानमुत्सृज्य उद्वर्त्तते यतो व्रजस्ततो याति व्रजेचप्राप्तः सन् अप्राप्तावेलां प्रतीक्षते' प्रतिपालयति, ततश्च खीरगहण' त्ति तत्र क्षीरग्रहणं करोति, क्षीराभ्यवहारमित्यर्थः, 'पहगमन' त्ति पीते क्षीर पथि गमनं करोति । पुनथ तेनास्य भेदः कृतः, ततश्र 'वासिरणं' ति मुहुर्मुहुः पुरीषोत्सर्ग विदधाति, तत्र च
कायविराधना, तंगधरणे च मरणं. 'दवविरोहोत्ति द्रवेण काकिन सह विरोधो भवति, साधोः प्रायस्तत्संव्यवहारात, यहा 'दवविरोही' त्ति द्रवम्उदकं तेन निर्लेपनं करोति सागारिकपुरतः, अथ न करोत्युड्डाहः-प्रवचनहीला भवति, अथवा द्रवविरोधो विनाशो, यतस्तृषितः संस्तदेव पिबति । एवं व्रजे गच्छत आत्मविराधना प्रवचनांपघातश्र स्यात. गमनविघातश्र नितरां स्यात् । उक्तं व्रजद्वारम. अथ ग्रामद्वारममू. (१३९) खद्धादानि अगामे संखडि आइन खद्ध गेलन्न ।
सन्नी दाने भद्दे अप्पत्तमहानिनादेस ॥
वृ. खद्धादानिकग्रामः-समृद्धग्रामस्तस्मिन्नुद्धर्त्तनं करोति, अप्राप्तां वेलां च प्रतिपालयति, क्षीर-ग्रहणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org