________________
ب
ओघनियुक्तिः मूलसूत्र
निमित्तं नग्राह्यं, दव्वादिमिय'त्तिद्रव्यादिचतुष्टयोपदेशे सति तत्र द्रव्यतः प्रासुकमप्रासुकं वा क्षेत्रतः क्रीतकडा अक्रीतकडावावसही, कालतः प्रथमपारुष्यामुपदिष्टं तस्यां च यदाप्रासुकंन लभ्यते तदाऽप्रासुकमपिक्रियते. भावतः समाधिः कर्त्तव्या प्रासुकाप्रासुकैरिति ॥
मू. (११३)
कारण हट्टपेसे गमननुलोमेण तेण सह गच्छे। निक्कारणिअ खरंटण बिइज्ज संघाइए गमनं ।।
वृ. एवमसी ग्लानो यदि कारणिको भवति, ततः हट्ट' त्ति दृढीभूतः 'पेसे 'त्ति प्रेषणीयः अथ ग्लानस्याप्यनुकूलमवगन्तव्यं भवति ततः 'गमननुलोमेण' हतुना तेनग्लानेन सह गच्छत् उक्तः साम्भोगिकः ग्लान एकः कारणिकः, असाम्भोगिकः ग्लाने कारणिक एकोऽप्येवमेव द्रष्टव्य इति । अथ निष्कारणिक एको ग्लानइतिततः‘निक्कारणिअखरंटण' त्तिनिष्कारणिकस्य ग्लानस्यखरण्टया-प्रवचनोपदेशपूर्वकं परुषभानमिति, खरण्टितथ द्वितीय आत्मनः क्रियत इति । ततथैवं सङ्घाटक सति 'गमण' त्ति गमनं कर्त्तव्यमिति । साम्भोगिकासाम्भागिकसंयत एकानेककारणिकनिष्कारणिकयतनांक्ता इदानीं साम्भोगिकासाम्भोगिकसंयतीनामेकानेककारणिकीनिष्कारणिकोयादीनां यतना प्रतिपाद्यते
अथ विधिपृच्छया पृष्टे सति तत्र संयत्यः स्युः, ततः को विधि: ? इत्याह
मू. (११४) समणपवेसि निसीहिअ दुवारवज्जण अदिपरिकहणं । थेरीतरुणिविभासा निमंतऽणाबाहपुच्छा य ॥
वृ. श्रमणीप्रतिश्रयप्रवेशे सति बहिः स्थितेनैव निषेधिकी कर्त्तव्या वास्त्रयं द्वारे मध्ये प्रवेशे च प्रविष्टश्र तथा ‘दुवारवज्जण’त्ति द्वारं प्रतिहत्य एकस्मिन् प्रदेशे तिष्ठति, अथ निषीधिकायां कृतायामपि स्वाध्यायव्यापृताभिर्न दृष्टस्ततः परिकथनं कर्त्तव्यं साधुरागत इति, ततः परिकथिते सति साध्वीभिर्निर्गन्तव्यं, तत्र को विधि: ?, 'थेरीतरूणविभास' त्ति याऽसौ प्रवर्तिनी सा कदाचित्स्थविरा भवति कदाचिच्च तरुणी, ततो 'विभाषा' विकल्पना, तत्र यदि स्थविरी निर्गच्छति तत आत्मद्वितीयाऽऽत्मतृतीया वा, अथ तरुणी ततः स्थविरीभिस्तिसृभिश्रतसृभिश्र निर्गच्छति, ततस्तास्तमासनेन निमन्त्रयन्ति, उपवेशयति, सोऽप्युपविश्य पृच्छति न काचिद्भवतीनामाबाधेति ॥
मू. (११५)
सिसि सह पडिनीयनिग्गहं अहव अन्नहिं पेसे ।
उवएसो ढावणया गेलन्ने वेज्जपुच्छा अ॥
वृ. ततस्ताः कथयन्ति अस्त्याबाधाइति, एवं शिष्टे कथिते सतियद्यसा सहः' समर्थस्ततः प्रत्यनीकनिग्रहं करोति. अथ निग्रहसमर्थो ने भवति ततोऽन्यत्र प्रेषयति अथ तत्र काचिद ग्लाना तत उपदेश ददाति, एवमेतदौषधादि दातव्यमस्याः । अथ तास्तन्न लभन्ते ततः 'दावण' त्ति असावेव दापयति, ग्लानत्वं सत्ययं विधिः । अथासी स्वयं न जानाति आषधादि दातुं ततो वैद्यं पृच्छति ॥
मू. (१९६)
तह चेव दीवण चउक्करण अन्नत्थवसहि जा पढमा ।
तह चंवगाणीए आगाढे चिलिमिली नवरं ।।
वृ. कथं वैद्यं पृच्छति ? ' तथैव' प्राग्वत 'दीवण' त्ति प्रकाटनं कारणिकोऽहमकाकी नापशकुन - बुद्धया ग्राह्यः. 'चउक्कएणं ति वैद्येन द्रव्यादिचतुष्के कथिते सति यतना पूर्ववत्कर्त्तव्या, 'अन्नत्थ- वसहि' त्ति अन्यवसतिव्यवस्थितेन प्रतिजागरणं कर्त्तव्यं. कियन्तं कालं यावदत आह- 'जापढमा' यावत्प्रथमामिलानयनक्षमा संवृत्तेति ततो गच्छति । एवं तावद्धहृनां मध्ये एकस्या ग्नानविधिरुक्तः इदानीमेकाकिन्या ग्लानविधिमति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org