________________
मूलं - १०८
तस्मादेतद्दोषपरिजिहीर्षयाऽनागतमेवोत्थाय प्राङ्गणे परिष्वष्- कमाणस्तिष्ठतीति । उक्तमुत्थितानुत्थितद्वारं, कियन्तं पुनः कालं तेन साधुना तस्य ग्लानस्य परिचरणं कर्त्तव्यमित्याह
मू. (१०९)
पढमावियारजोगं नाउं गच्छे बिड़ज्जए दिन्ने ।
४१
एमेव अन्नसंभोइयाण अन्नाड वसहीए ॥
वृ. पढम' त्ति यावत् प्रथमालिकां करोति तां चात्मनः स्वयमेवानयितुं समर्थः संवृत्तः, वियार-जोग्गं' ति बहिर्भूमिगमनयोग्यो जात इति एवं ज्ञात्वा गच्छेत् कथं ? द्वितीये सहाये दत्ते सति, अथ नास्ति सहायस्तत एक एव व्रजति । एष तावत्साम्भोगिकान् प्राप्य विधिरुक्तः, इदानीमसाम्भोगिकविधिमतिदिशन्नाहएवमेवान्यसाम्भोगिकग्लानस्य विधिः, किन्तु अन्नाए वसहीए' त्ति अन्यस्यां वसतौ व्यवस्थितेन ग्लानपरिचरणाविधिःकार्यः, अयमपरो विशेषः - असाम्भोगिकसकाशं प्रविशता तदनाक्रान्ते भूप्रदेशे निक्षिप्योपकरणं ततः कृतिकर्मादिसाम्भोगिंकेष्विव सर्वं कर्त्तव्यमिति वदनाक्रान्तभूभागे चोपकरणं स्थापयति, मा मृच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति । एवं तावत्साम्भोगिकबहमध्यगतस्य ग्लानस्य विधिः, अन्यसाम्भागिकबहुमध्यगतस्याप्येष एव विधिर्दृश्यः । इदानीमेकैकस्य साम्भागिकस्येतरस्य च विधिमाहमू. (११० ) गागि गिलाणंमि उ सिट्टे किं कीरई ? न कीरई वावि ।
छगमुत्तकहणपानगधुवणत्थर तस्स नियगं वा ॥
वृ. एवमसौ गच्छन् ग्रामाभ्यासे कस्मादपि पुरुषादिदं शृणुयात् किं भवता ग्लानप्रतिजागरणं क्रियते उत न?, ततत्रैवमेकाकिनि ग्लाने 'शिष्टे' कथिते सति क्रियते न क्रियते ? इत्युक्ते परेण सति साधुरप्याहसुष्टु क्रियते, पर आह- यद्येवं 'छगमुत्तकहण' त्ति छगं पुरीषं मूत्रं प्रतीतं, ताभ्यांविलिप्त आस्ते, एवं कथिते सति स साधुर्बहिर्भूमेरेव 'पानग' त्ति पानकं गृहीत्वा प्रविशति, प्रविष्टश्च धुवण' त्ति तस्य' ग्लानस्य धावनं करोति-प्रक्षालनं विदधाति, उपधिश्व 'अत्थरण' त्ति आस्तरणं करोति 'तस्स' त्ति तदीयैरेव चीवरैः, अथ तस्यान्यानि न सन्ति ततः 'नियगं व' त्ति निजरेव चीवरैरास्तरणं करोतीति । तथा चाह
मू. (१११)
सारवणं साहल्लय पागडधुवणे सुई समायारा ।
अइबिंभले समाही सहुस्स आसासपडिअरणं ॥
वृ. सारवणं निष्क्रियं तस्मिन् निष्क्रिये ग्लाने कृते सति अथवा 'सारवणे' त्ति संमार्जित प्रतिश्रये ग्लानसंबन्धिनिसतिपरःपृच्छति-तवायंकेन संबन्धेन संबद्ध इति. साधुराह. - कत्थड कहिंचिजाता. एवमादि. ततः पर आह- 'साहल्लय'त्ति, सफलता धर्मस्य, यददृष्टेऽपि परमबन्धाविव क्रिया क्रियते. 'पायडधुवणे' त्ति प्रकटंग्लानस्योपधेर्वाक्षालनं कर्त्तव्यं प्रकटक्षालने चलीकएवमाह, शुचिसमाचारा एतं श्रमणाइति, अथासौ ग्लानोऽतिविह्वलःस्याद्-अतीव दुःखेन करालितः स्यात्ततः समाहि' त्ति यथा प्रार्थितं भोजनादि दातव्यं येन स्वस्थचित्तो भवति, स्वस्थभूतश्राभिधीयते यथाकालं कुरुष्वेति । अथासां सहः समर्थस्ततश्चाश्चास्यतेन भेतव्यं अहं त्वां प्रतिजागरामीति । ततश्र
मू. (११२)
सयमेव दिट्टपाढी करंड पुच्छड़ अयाणओं वेज्जं । दीवन दव्वाइंमि अ उवएसो जाव लंभी उ ।।
वृ. यद्यसौ साधुः दृष्टपाठी' दृष्टः- उपलब्धवरकसुश्रुतादिर्येन सदृष्टपाठी, अथवा दिन त्तिवेद्यव - दृष्टक्रियः क्रियाकुशलः, पाठीति सकलं वाहडादि पठति स एवंविधः स्वयमेव क्रियां करोति । अथासौ दृष्टपाठी न भवति ततः पृच्छति अज्ञः सन वैद्यं. 'दीवन' त्ति वैद्यशालां गतः प्रकाशयति यद्ताहं कारण ककः संजातः, अतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org