________________
४०
ओ नियुक्तिः मूलसूत्र
गेन विसज्जया अविसज्जुवएस दावणया ।।
वृ. 'निक्षिप्य' विमुच्य साधुहस्ते. किम ? उपकरणं- पात्रकादि ततः 'कृतिकर्म' वन्दनं करोति, ततश्र ‘दीवणं’तिआगमनकार्याविर्भावनं करोति · अनावाहि त्ति. अनाबाधा यूयम् ?, एवंपृष्टेसतितेऽप्याहुः - अनाबाधा वयमिति । 'पुच्छण' त्तिततः साधुरेवमाह-भवदर्शनार्थमहं प्रविष्टो ग्राममिदानीं व्रजामीत्येवं पृच्छति, ततस्तेऽपि साधवो यद्यस्ति सहायस्तं दत्त्वा प्रपयन्ति अथ तत्र कथिद ग्लानस्तत एवं ब्रवीति अहमेनं ग्लामं परिचरामति, ततस्तेऽप्याहु:- विद्यन्त एव परिचारकाः. एवमभिधाय 'विसज्जण 'न्ति तं साधुं 'विसर्जयन्ति' प्रेषयन्तिप्रेषयन्तिवयमेवभन्निष्याम इति । अथन विसर्ज-यन्ति, एतच्च ब्रुवतेसर्वमत्र ग्लानप्रायोग्यमोषधादि लभ्यते, किन्तु तत्संयोजनां न जानीमः, ततः स उपदेशं ददाति इदमौषधमनेन संयोज्य देयमिति अथ त एवं ब्रवते - औषधान्येवात्र वयं न लभामहे ततः ससाधुपियत्यौषधानि याचयति वा पाठान्तरं एवमसावौषधानि दापयित्वाव्रजति, अथतएवमाहुः-औषधसंयोजनां न जानीमोन चलभामहे, तत एष साधुरौषधानियाचित्वा संयोज्य ग्लानाय दत्त्वा मनाक् प्रशान्ते व्याधौ सति व्रजति । अथ त एवमाहुर्गच्छन्तं साधुम
मू. (१०७) पुनरवि अयं खुभिज्जा अयाणगा मो स वा भणिज्ज संचिक्खे | उभओऽवि अयाणंता वेज्जं पुच्छंति जयणाए ।।
वृ. पुनरप्ययं व्याधिः क्षोभंयायात प्रकुप्येत. वयंचनजानीम उपशमयितुं, सच ग्लानएवं ब्रूयात्-त्वया तिष्ठता अहमचिरात्प्रगुणीभवामि, ततः 'संचिक्खे' त्ति संतिष्ठति । अथोभावपि तावागन्तुकवास्तव्यौ न जानीतः क्रियां कर्त्तुं तत उभावपि अजानन्तौ वैद्यं पृच्छतः कथं ? - 'यतनया' अनन्तरगाथावक्ष्यमाणयेति । सा चैवम्
मू. (१०८)
गमने पमाण उवगरण सउण वावार ठाण उवएसो । आनन गंधुदगाई उट्टमनुट्टे अ जे दोसा ॥
वृ. यदि ग्लानो गन्तुं पारयति तत उत्सर्गेण स एव नीयते, अथ न पारयति ततोऽन्ये साधवो वैद्यसकाशे गमनं कुर्वन्ति, ‘पमाणे’त्तिकियत्प्रमाणैर्गन्तव्यं ?, तत्रैकेन नगन्तव्यं यमदण्डपरिकल्पनात्, नद्वौ यमपुरुषपरिकल्पनात्, न चत्वारो वाहीकपरिकल्पनात्. अतस्त्रिपञ्चसप्तभिर्गन्तव्यं, उक्तं प्रमाणं, 'उवगरणे'त्ति शुक्लवासोभिर्यातव्यं, न कृष्णमलिनादिभिर्यातव्यं, उक्त मुपकरणं, 'सउण' त्ति शकुनेषु सत्सु गन्तव्यं, ते चामी ‘नन्दीतर’मित्यादयः, अपशकुनेषु न गन्तव्यं. ये चैतेमडलकुचेलादयः, उक्तं शकुनद्वारं, 'वावार' त्ति यद्यसौवैद्यो भुङ्क्ते एकल्लशाटको वा छिन्दन किञ्चिदास्ते भिन्दन्वा ततो न प्रष्टव्यः, अथग्लानस्यापि छेत्तव्यं ततोऽस्मिन्नैव प्रष्टव्यः, उक्तो व्यापारः, 'ठाण' त्ति यद्युत्कुरुटिकादी तुषराश्यादौ स्थितस्ततो न प्रष्टव्यः, किं तर्हि ?, शुचिप्रदेशे स्थित इति, उक्तं स्थानं, 'उवएस' त्ति एवमसौ यतनया पृष्टो यमुपदेशं ददाति द्रव्यतः क्षेत्रतः कालती भावतथ सोऽवधारणीयः, तत्र द्रव्यतः शाल्यादनं पारिहट्टं च खीरं क्षेत्रता निवांता वसतिः कालतःपौरुष्यांदेयंभावतो नास्य प्रतिकूलव्यवहारिभिर्भाव्यं उक्त उपदेशः, अथसवैद्य एवं ब्रूयात पश्यामि तावत्तमिति, ततः सर्वैद्यस्तत्समीपमानीयते, न च ग्लानस्तत्र नेयः, किं कारणं ?, वैद्यसमीपे नीयमान उत्क्षिप्त लोकः कदाचिदेवं ब्रूयात - यथा नूनमयं मृत इत्यपशकुनः मूर्च्छा वा भवेद्विपत्तिर्वा वैद्यगृहे स्यादिति. आग - च्छति चवैद्येकिंकर्त्तव्यं ?, गन्धोदकादिभिर्गन्धवासाःसन्निहिताः क्रियन्ते, तद्दानार्थमुदकमृत्तिकयाविलेपनादि क्रियते । वैद्ये चागच्छति सूरिणा किं कर्त्तव्यमित्याह- 'उठ्ठमणुट्टे अ जे दोस' त्ति यद्यसावाचार्य वैद्यस्यागतस्योत्तिष्ठति ततो लाघवदोषः अथ नाभ्युद्भतिमादत्ते ततः स्तब्ध इति कृत्वा कोपं गृहीत्वा प्रतिकृत्नः स्यात.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org